________________ तृतीय स्कन्धे सर्गः८ मिलितमिह महीपतिं वजन्तं निजपुरगोपुरवासिनं विनीतः। सकलमपि निमत्रितं वितेने सपदि विदर्भपतिर्विवाहसज्जः // 49 // इति श्रीमाणिक्यदेवमूरिकृते नलायने तृतीये स्वयम्वरस्कन्धे अष्टमः सर्गः // 8 // विवाहारम्भः // // 67 // तृतीये स्वयम्बरस्कन्धे नवमः सर्गः / CHI II III-III IIFIIIgle प्रविश्य च प्रमोदेन जवादन्तःपुरं नृपः / सुतामातरमित्यूचे तातः स दमनस्वसुः // 1 // अयि ! प्रतीच्छ तं वीरं प्रिये ! जामातरं नलम् / यस्यानुकारकर्त्तव्ये देवानामपि कौतुकम् // 2 // नूनं नलेन जामात्रा लोकोत्तरगुणेन नः / कथकैशिकवंशोऽयमाकल्पान्तं विभूषितः // 3 // किमन्यत् तत्र तादृशं त्रिलोकीनाथमेलके / तनया यदि जानाति विवेक्तुं वरमीदृशम् // 4 // प्राप्तकालक्रमं सम्यक् शीघ्रं सपरिवारया / तत् कल्याणि ! क्रियाः सर्वा वितन्यन्तामनन्तराः // 5 // इत्युक्त्वा पुनरास्थाय खयमास्थानमण्डपम् / दिदेश सादरं सर्वान् कृत्येषु कुलपुत्रकान् // 6 // आकीर्णमभवत् सर्व मङ्गल्यैः संविधानकैः / व्यग्रत्वमनिशं भेजे समग्रो नगरीजन: विधाय विधिवत् तस्या विवाहस्नानमङ्गलम् / प्रसाधिकाभिरारेमे विभूषणमहोत्सवः // 8 // EHI AIIIIIIIIISele // 67 //