________________ नाजा III A TRIGANI - III VIII ISHIE जयति नृप! तदीया विश्वसम्भावनीया भुवनजयपताका रूपरेखा शलाका // 23 // उत्कल्लोलं त्रिवलिवलये लब्धराज्यं नितम्बे प्राप्तौन्नत्यं कुचकलशयोर्गण्डयोर्मुक्तनिद्रम् / पाणिद्वन्द्वे कृतकिशलयं केशपाशे विशङ्क चिन्तातीतं नयनयुगले वनं नाथ! तस्याः // 24 // समानधर्माः समशीलवेषाः सदृक्कुलास्तुल्यवयोविलासाः। सख्यः सदा सप्तशतानि तस्याः नरेन्द्रकन्याः सविधं भजन्ते // 25 // आजन्मतः सर्वजगद्वधूनां जयैकराज्ये विहिताभिषेका / सा लञ्छनच्छमकृतं विधात्रा ललाटपट्टे तिलकं बिभर्ति // 26 // दृष्टं दृष्टं नवनवमिव प्रेक्ष्यते यत्तदङ्ग तस्मादस्मन्मनसि घटते सूनृतं शाक्यवाक्यम् / दृश्यादृश्यं ननु तदुदरं येन तेन प्रकामं सम्यग् जैनी जयति सदसद्वादविद्याजयश्रीः / / 27 / / यां विलोक्य मनुजस्य जायते जीवितं च सफलं स्वजन्म च / सा नरेन्द्रतनया नयान्विता मङ्गलं शुभतनो ! तनोतु ते // 28 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे दशमः सर्गः // 10 // ॐIIIIIIIIII-III FISHI