________________ सप्तम नल परीक्षा // सर्गः३ // 164 // AHATIAHITI AHIकताबाद इस्युक्त पत्रपात्र्यां तत् कुब्जेन परिवेषितम् / अन्नं तत् किश्चिदादाय देव्याः पार्श्व जगाम सा // 48 // पुत्रवात्सल्यमुख्यं तत् कुब्जवृत्तं निवेद्य सा / तदन्नं पुरतो देव्याः सविस्मयमदर्शयत् // 49 // ततोऽनुभूतपूर्व तत् भोज्यमास्वाद्य सावदत् / अनेन कर्मणा नूनं सर्वथा नल एव सः // 50 // द्वितीयो यदि मेरुः स्यात् तृतीयः पक्ष एव वा / हव्यवाहश्चतुर्थो वा वेदो वा यदि पञ्चमः // 51 // षष्ठत्रिदशवृक्षो वा ऋतुर्वा यदि सप्तमः / स्वरः स्यादष्टमो यद् वा नवमो वा कुलाचलः // 52 // रसो वा दशमोऽप्यत्रैकादशो वा दिगीश्वरः / द्वादशो यदि वा रुद्रः सूर्यो वापि त्रयोदशः / // 53 // चतुर्दशो यक्षराजः पूर्वाणि दशपश्च च / निधिः षोडशसंख्यां का परमा धार्मिकाथवा // 54 // कला सप्तदशा वा स्यात् सुवर्णकाधिकं च चेत् / अष्टादशविधं मक्षजा वा एकोनविंशति // 55 // नलवर्ज परः पृथ्व्यां तद् भवेत् सूर्यपाकवित् / वैरसेनिरयं नूनं किमुक्तैर्बहुभिर्मम // 56 // चतुर्भिः कलापकं / तमित्युक्तवतीं पुत्री माता सोत्साहमत्रवीत् / वत्से ! नलोऽयमित्युच्चैः कुब्जे चेत् तव निश्चयः // 57 // तदयं त्वत्समीपेऽपि तावदानेष्यतेऽधुना / पश्चाद् यथा तथा वा त्वं तद् व्यक्तिं कर्तुमर्हसि // 58 // युग्मम् // इति पटुतरमुक्त्वा भोजनानन्तरं सा विपुलमतिरनुज्ञां भीमराज्ञो गृहीत्वा / नरपतिमुपनेतु कुब्जरूपं नलं तं विनयनयसुशीलान सौविदल्लान् दिदेश // 59 // भर्तुर्नलस्य ननु कुब्जमिमं प्रपत्रं वात्सल्यतः किल दिक्षति राजपुत्री.] IIIतIतातIIISEle // 16 //