SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ चतुर्थे स्कन्धे सर्गः६ दमयन्त्यै केशिन्या: सान्त्वनम् // // 83 // आजIIIHIVISISIFISHI II अन्तरेण समावेश व्यन्तराणां दुरात्मनाम् / कथमित्थं भवेद् मुग्धे ! यदि शिक्ष्यः स्वयं नलः // 61 / / अतिक्रामति किं सत्यं विनयं वाति वर्तते / परित्यजति वा प्रीति कल्पान्तेऽपि कथं नलः? // 2 // नास्त्येव हि नलो राजा स भवत्प्राणवल्लभः / इदं तद्रूपमास्थाय भूतं किञ्चिद् विजृम्भते // 63 // न नाम मङ्गलैरुक्तैर्माङ्गल्यमुपजायते / अपि कर्णकटु स्पष्टं शृणु पथ्यं वचो मम // 64 // यद् मार्तण्डः परिधिवलयी व्याम्नि सूर्यद्वयं यद् रात्री चन्द्र धनुपि च यत् यच्च युद्ध ग्रहाणां / उल्कापाता यदपि बहवः क्रूरकेतूदयो वा कालातीतौ यदपि रजनीभर्तुरस्तोदयौ च यद् दिग्दाहो यदपि च रजोवृष्टिभूमिप्रकम्पौ यद्गान्धर्व व्रजति नगरं गोचरं लोचनानाम् / यच्चात्यन्तप्रसवविकृतिः कालतो रूपतो वा यच्चाकाले किल जलधरो वारि वर्षत्यभीक्ष्णम् // 66 // ग्रामे वन्या वनभुवि च यद् ग्रामसच्चाः प्रवृत्ताः क्रूराक्रन्दं खरनखरिणो यच्च मिश्रं रसन्ति / दुर्गा नीडं मधु च सरघासम्भवं मन्दिरे यत् यत्सञ्जातः स्थलजलनभश्चारिणां स्थानभेदः // 67 // चक्राकारं यदपि गगने गृध्रकङ्का भजन्ते काकप्राया यदपि विहगा हर्म्यमन्तर्विशन्ति / यद् दृश्यन्ते सुरतनिरताः श्वेतवर्णाश्च काका यत्सत्वानामतिविषयिणामन्ययोनौ प्रवृत्तिः // 68 // पुष्पे पुष्पं फलमपि फले पल्लवे पल्लवं यत् यच्चात्यन्तं फलसुमनसां कापि चित्रा समृद्धिः। कन्दो दो यदपि विपिने हस्तपादादितुल्यः सस्यानां वा परिणमति यद् मांसरूपेण पाकः // 69 / / IAHINITISile 83 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy