________________ श्रीनला प्रस्तावना। यनस्य . IFII IIIIII VIIIIIIIIII ६-नलचरितम्-देवविजयगणिरचितपाण्डवचरितान्तर्गतम् , एतच्च अम्बालान्तर्गताऽऽत्मानन्दसभया प्रकाशितम् / ७-नलचरितम्-गुणविजयगणिविरक्ति-गद्यनेमिनाथचरितान्तर्गतम् / इदं च पण्डितवर्येण अमरचन्द्राऽऽत्मजेन अमृतलालेन (ए. एम्. एण्ड कम्पनीतः ) प्रकाशितम् / / ८-दवदंतीचरितम्-सोमप्रभाचार्यविरचितकुमारपालप्रतिबोधान्तर्गतं गायकवाडओरियन्टलसीरीजसंस्थया प्रकाशितम् / दवदंतीचरियं-पत्तनभाण्डागारीयप्राकृतसूचीपत्रे सूचितम् / / दमयन्तीप्रबन्धः ( गद्यरूपः ) जैनग्रन्थावल्यां सूचितः। दमयन्तीप्रबन्धः (पद्यरूपः ) जैनग्रन्थावल्यां सूचितः / दवदन्तीकथा-सोमतिलकसूरिविरचितशीलोपदेशमालावृत्त्यन्तर्गता जामनगरनिवासिना श्रावकपण्डितहंसराजाऽs मज-हीरालालेन जैनभास्करोदयमुद्रणालयात् प्रकटिता। - दवदन्तीकथा-जिनसागरसूरिविरचितायां कर्पूरप्रकरटीकायाम् / सा च भावनगरस्थया जैनधर्मप्रसारकसभया प्रकाशिता। दमयन्तीकथा-शुभशीलगणिविरचितभरतेश्वर-बाहुबलिवृत्त्यन्तर्गता राजनगर(अहम्मदावाद)स्थया जैनविद्या - शालया गूर्जरभाषानुवादरूपा प्रकाशिता। उपरितनेभ्यो ग्रन्थेभ्योऽन्यत्रापि हरिवंशपुराणे, पाण्डवपुराणे, नेमिनाथपुराणे, त्रिषष्टिलक्षणपुराणे, नलोपाख्याने, नैषधीयचरिते, - नल-दमयन्तीकथा-चम्प्वां, नलोदयकाव्ये, नलाभ्युदये, नलचरितनाटके, नलानन्दनाटके, नलवर्णनकाव्ये, नलभूमिपालरूपके, नल