SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ तृतीय स्कन्धे शारदा दमयन्ती. परिचयं कारयति॥ सर्गः 7 // 64 // DISIONSHIFALINIIII-III TRA यन्मया विरहनिम्महया वा वीक्षितो दशसु दिक्षु स कान्तः / मदृशस्तदधुनापि पुरावत् किन्नु तत्परिचयं रचयन्ति // 24 // कौतुकी किमथवा नल एव व्याचकार बहुरूपतया स्वम् / अर्जितार्यहृदयः स कदाचिद् वेद भूपतिरिमामपि विद्याम् // 25 // ज्ञातमेतदथवा किमिवान्यत् हन्त ? निश्चितमयं मयि कश्चित् / मत्प्रियं प्रसभमेष पिधत्ते लोकपालकपट्टस्तु कपाटः // 26 // खल्पसत्त्व विभवेऽपि जनेऽस्मिन् मन्युरेष बत दिक्पतयः किम् / स्वामिनामनुचितं हि चरित्रं तृणेष्वपि कठोरकुठारः // 27 // थटा भाग्गनिपरीतनया मे नागिनोऽपि गमिताः नारिपुलम् ! नान्गगेन सलिलं जसदानां गतारोगकरण निरतं न // 28 // पल्बलं ज्वलति शुष्यति शाखी मर्मरं वपुषि वपति चन्द्रः / वासरः सृजति रात्रिविभागं भाग्यभङ्गसमये हि जनस्य // 29 / / अद्य सर्वमपि हि प्रतिकूलं लोकपालकपटे मम रुटे / याति रेणुरपि दुःसहभावं भास्करव्यतिकरेण हि सद्यः // 30 // कस्य यामि शरणाय समीपं कः करोति मयि कारुणिकत्वम् / किं करोमि? कमुपायमुपैमि? व्याकुलाऽस्मि विषमे पतिताहम् / / 31 / / दुर्जनः सुरगणः सकलोऽयं नषधोऽपि मिलितः सह देवैः / यः पुरापि मयि निर्मितरङ्गः सोऽपि संप्रति न हंसविहङ्गः // 32 // अत्र कश्चिदपि सत्यनलो यः स्वीकरोतु स पुनर्वरमालाम् / उच्यमानमिति विश्वसमक्षं नानुरुध्यति कथश्चन लज्जा // 33 / / वीरसेनतनयं वरमालां प्रापयति यदि नाम नियुञ्ज / वेत्रिणीं भवति हन्त ! तदस्या विग्रहः सह सुरमदुपज्ञः // 34 / / स्वार्थसिद्धिविषये सुहृदर्थ यो विनाशयितुमिच्छति मूढः / स प्रतीच्छति मुखे निपतन्तं पाणिना निविडशस्त्रनिपातम् // 35 // लोकपालपरिपन्परिरब्धे नैषधे पृथगनु ध्रियमाणे / अस्तु हस्तगतहानिरियं मे मूढता तदपरः परिवादः . इत्यादि चेतसि चिराय विचारयन्ती दिक्पालदम्भगहनग्रहगोचरस्था / IIIIIIIIIIIIIII
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy