________________ IIEI THAI VIII IRIDIII 1510 त्यजसि यदि कदाचिद् भीरु ! भर्तारमेनं क इह तव तदानीं सुन्दरि ! प्राणनाथः१ // 14 // चिन्त्यते बत विलम्ब्यते च किं ? लज्जया जडतया च पूर्यताम् / स्वीकुरु प्रियतमं प्रमोदतां मन्मथश्च सुजनश्च भामिनि ! इत्यनेन बहुलार्थवृत्तिना सा मुमोह वचसा विशेषतः / वैभवाधिकतया हि लोचने नूनमन्धयति वैद्युतं महः // 16 // अप्यमन्यत नलं तु दिक्पतिं दिक्पतिं च नलमप्यमन्यत / प्रत्यपद्यत न निश्चयं क्वचित् कीर्तनादपि विलोकनादपि एकैकस्मिस्तत्र राग विधातुं भिन्दन बाणैः पञ्चभिः पञ्चबाणः भैमीलक्ष्ये शस्त्रसङ्ख्यां स्वकीयां सार्थीचक्रे पञ्चभावाद् नलस्य // 18 // रुद्धबुद्धिविभवा भगवत्या प्राप भीमतनयाऽपि न मार्गम् / भीमभूमिपतिना सह सर्व व्याकुलं नृपतिमण्डलमासीत् // 19 // मूकमङ्गलमृदङ्गसहस्रं सावधानसकलस्वजनं च / गीतनृत्यरहितं हतहर्ष तत्क्षणं बत बभूव सदस्तत् // 20 // स्पृश्यमानमनिलस्य तरङ्गैदृश्यमानमखिलक्षितिपालैः / भीतभीमतनया कररुद्धं न स्वयं वरणदाम रराज // 21 // कण्ठपीठगतजीवितमङ्गं धूसरधरदलं कलयन्ती / इत्यचिन्तयदचिन्त्यचरित्रा भीमभूपतनया हृदयेन // 22 // एक एव स नलः किल पूर्व पश्च संप्रंति कुतः पुनरेते / निर्जले कथमपि प्रतिबिम्ब दृश्यते न खलु चन्द्रमसोऽपि // 23 // कजा IIIIIII-III-III ISSING