________________ // 37 // आवर्तगर्तपतिता बलदर्पिताऽपि न प्राप वारणवधूरिव निर्गमं सा इति श्रीमाणिक्यदेवसूरिकृते नलायने तृतीये स्वयम्वरस्कन्धे सप्तमः सर्गः // 7 // तृतीये स्वयम्वरस्कन्धे अष्टमः सर्गः / // 1 // // 2 // // 3 // इयेष नैषधं ज्ञातुं ततः सा देवसेवया / गम्यते परमं ब्रह्म किमनाराध्य वाङ्मयम् ? दिक्पालपरिचर्या च कल्पवल्लीव लीलया / इयं हि द्वितयी पुंसां ददाति दयितं फलम् एतदेव हि दानार्थे समन्तादन्तरं तयोः / दूराद् ददाति यत्पूर्वा तटस्थानां पुनः परा समुद्दिश्य दिशामीशान् समाधिस्था समन्ततः / चिरं चकार चाटूनि चेतसा चारुहासिनी नमोऽस्तु मम युष्मभ्यं दिक्पालेभ्यो दिवानिशम् / कुमार्यां सुकुमारत्वं यूयं भजत देवताः! अद्य युष्मासु रुष्टेषु यूयमेव गतिर्मम / अन्नविद्वेषिणां कायो वायुना हि न धार्यते सर्वकषप्रभावेषु का नाम प्रतिमल्लता। न विध्यापयितुं शक्तिस्तृणानां हि दवानलम् स्वल्पेषु भ्रूबलं ज्ञातुं बलिनां वितथा रतिः / को हि विश्वम्भरां मुक्त्वा मेरुमुद्रोढुमीश्वरः यद् दहन्ति न मार्तण्डा न क्षुभ्यन्ति यदन्धयः / यच्च शक्तास्तितिक्षन्ते तेनेदं वर्त्तते जगत् जातामा बाजा बजाना // 7 // // 8 //