SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ पञ्चमे स्कन्धे सर्गः१८ // 31 // // 32 // / / 33 // / / 34 // // 135||] III-IIIIIIII-IIIIIIIIC कृत्वा विद्युन्मुखीवृत्या यथादृष्टं स पूजनम् / शुकः सुकृतलोभेन धन्यम्मन्यो मनस्यभृत् परेद्यवि पुनस्तेन पूर्ववत् प्रार्थितापि सा / नतु तं तत्र जग्राह तत्पारिप्लवताभयात् एकाकिन्यपि मा गत्वा नत्वा देवं समाययौ / भोजनावसरे सोऽपि समाकृष्टश्च पञरात् स देवभुवने गच्छन् मुक्त्वा भोजनभाजनम् / समाप्य नियमं भूयः समयेन समाययौ विद्युन्मती तु भव्यापि तं प्राप्य पुनुरागतम् / स्त्रीस्वभावभवं क्षोमं सपदि प्रत्यपधत आवालकालतः क्लेशर्मया लालितपालितः / अहो भ्रमति मां मुक्त्वा सोऽयं संप्रति निर्भयः कदाचिद् यदि कुत्रापि परहस्तं प्रपद्यते / तद् मे हृदयदाहस्य न भिषक नैव भेषजम् अस्त्येव श्येनमार्जारगृध्रादिभ्यः पराभवः / इत्थं च सञ्चरन् स्वैरं भवेद् वनचरोऽपि वा तद्वरं सर्वथा नाशादर्द्धनाशः स्वयं कृतः / करिष्यामि तथा भूयो यथा याति न कुत्रचित् इति सश्चिन्त्य सा धृत्वा तस्य दीनस्य पक्षिणः / मा मेति जल्पतः पक्षी मुख्यौ चिच्छेद खेदतः स छिन्नपक्षतिः पक्षी दुःखातः साश्रुलोचनः / मन्युगद्गदमित्युच्चैरूचे विद्युन्मती प्रति न मया समयो भिन्नस्त्वन्मध्ये भोक्तु मास्थितः / कथं निरपराधस्य मम पक्षौ त्वया क्षतौ ? स्वयं पालितपूर्वस्य त्वत्परस्य प्रियस्य च / साधु स्वाधीनदीनस्य शौर्य तब ममोपरि इत्थं निरनुरोधत्वं यत् न्वया मयि दर्शितम् / तत्पानमशनं भूयश्चेत् कुर्यात् तत् खगो नहिं . HILAIIIIIIIIIIIIle दमयन्त्या आश्वा- . सनाय भास्कर शिष्येण कथिता कलावत्या: कथा / // 38 // / / 39 / / // 40 // // 41 // // 42 // // 43 // . // 44 // // 135 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy