________________ चतुर्थे ISle द्यूतार्थ स्कन्धे सर्गः 5 दमयन्त्याःशोचः॥ // 78 IIIII-III-IIIII देवि ! वैदर्भि ! कच्चित् ते चित्ते सुखमखण्डितम् ? / निरातङ्कानि गात्राणि कच्चित् तव तनूदरि ? // 27 // को दधाति त्वयि द्वेषं ? कस्त्वामुल्लङ्घ्य वर्तते ? / कुतस्तव भयं मीरु ! कस्मै मनसि कुप्यसि ? // 28 // सुता भीमस्य राज्ञस्त्वं वीरसेनस्य च स्नुषा / पक्षद्वयविशुद्धायाः कथं कलुषता तव ? // 29 // अयि ! प्रसीद बैदर्भि ! हृदयं सदयं कुरु / प्रिये ! प्रयच्छ मे हन्त ! हन्तकारं च वाङ्मयम् // 30 // इति जल्पन कर धृत्वा निवेश्य निजसन्निधौ / अभिप्रायप्रकाशाय स तस्याः शपथं ददौ ततः शिरसि कुर्वाणा करकुड्मलशेखरम् / उवाच वचनं देवी दमयन्ती नलं प्रति // 32 // कथमित्थं महाराज ! वृथा मनसि दूयसे ? / यत्तनोरेव मां पश्यन्नलङ्कारैरलताम् // 33 // किं माणिक्यमयैः कार्य भारभृतैर्विभूषणैः / त्वमेव देव ! नित्योऽसि शृङ्गारो मम जङ्गमः / // 34 // पतिसन्मानिता नारी निर्वेषापि विराजते / शोभते हि पयःपूर्णा पद्महीनापि दीर्घिका // 35 // प्रतिकूलप्रियाणां किं पुरन्ध्रीणां प्रसाधनेः / सच्चसाहसहीनानां सेनानां डिण्डिमैरिव / / // 36 // स्वामिन् ! धवलितं विश्व तव कीर्त्या चराचरम् / स एव हि ममोद्योतः शृङ्गारमण्डनं विना // 37 // त्वदर्धासनसान्निध्यं लभमाना मनोरमम् / न श्रद्दधाम्यहं नाथ! पौलोमीमपि सुस्थिताम् // 38 / / इत्थं भवत्प्रसादेन सर्वोत्कर्षजुपोऽपि हि / भाग्यहानिः पुनः शीघ्रं संप्राप्ता मम संप्रति // 39 // यत् त्वां मदपकर्षन्ती हरन्ती हृदयं तव / शश्वदक्षवतीयं ते सपत्नीमामुपस्थिता // 40 // SHI AIATI THIS