SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ चतुर्थे स्कन्धे सर्गः 5 वाग्द्यूतस्य दोषाणि // // 80 // III ATHII A ISIIA HI AISI VIII TING अथ मातुः सरन् दास्यं क्रोधान्धो गरुडः क्रमात् / सर्पान् व्यापादयामास पातालानि प्रकम्पयन् // 83 // ततः कर्तुं कुलत्राणं प्राहिणोत् तस्य वासुकिः / मनोनं सर्पमेकैकं वध्यं नित्यकरप्रदः // 84 // इत्थं विशसतस्तस्य सर्पान् मलयपर्वते / कालक्रमात् समुत्तस्थुः स्थूलकूटाः फणाभृताम् // 85 // कदाचित् तत्र संप्राप्तो मलयेन्द्रसुतावरः / ज्ञात्वा तत्सर्परक्षार्थ तस्थौ जीमूतवाहनः // 86 // स च वध्यशिलासुप्तः शङ्खचूडस वारके / गरुडेनार्द्धजन्यः सन् परिवृत्य ददौ वपुः संप्राप्ते शङ्खचूड़े च ददति स्वं वपुः पुरः / जीमूतवाहनं ज्ञात्वा तुष्टः सत्त्वेन पक्षिराटू // 88 // सर्परक्षावरं तस्मै वाञ्छितं गरुडो ददौ / यथावस्थितदेहं च तं चक्रे विनतासुतः // 89 // तदतिविषममेतत् कुत्सितं छद्ममूलं सुजनहृदयशून्य कीर्तिकूलङ्कपं च / परिहर नरदेव ! द्यूतमुद्भूतपापं परिचिनु दुरखापं निर्मलं धर्मकर्म // 9 // अवन्ध्यविज्ञप्तिरिय सदेव प्रसादपात्रं तव भीमपुत्री / तदार्यपुत्र ! क्रियतां मदुक्तमुक्त्वेति सा तत्पदयोः पपात // 91 // तुभ्यं शपे यदि दुरोदरमाचरामि स्वास्थ्यं भज वहृदि भीरु ! भयं विहाय / इत्थं त्रपापरवशो नृपतिर्बुवाणः प्राणेश्वरीं सरभसं भृशमुच्चकर्ष - // 92 / / किं शर्मणापि मम तेन न यत् प्रियं ते भूयाञ्च दुःखमपि तद् मम यत् तवेष्टम् /
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy