________________ // 72 // // 73 // तत्खलोऽपि कलयिष्यति शान्ति सामवाग्भिरभिरामतराभिः ध्रुवमधिकतरः स्यात् सामवाक्येर्नवीनज्वर इव जलसेकरस्य मूर्खस्य मन्युः। / परिहरत तदेनं दूरतो दुर्विनीतं द्रुततरमिति मत्वा निर्ययौ देवसार्थः तादृक् तदीयगुणवर्णनमूलमन्त्रैरुद्दीपितः परुषरोपकषायिताक्षः / भैमीकरग्रहणवैरमिव स्मरद्भिः कृत्या कृतः किल नले कलिरेव देवैः पुरः सुराणां विहितप्रतिज्ञो नलस्य निष्कारणशत्रुभूतः / चचाल कालानलकल्पकोपः कलिमहीमण्डलमायियासुः इति श्रीमाणिक्यदेवसूरिकृते नलायने चतुर्थस्कन्धे द्वितीयः सर्गः // 2 // // 74 // // 75 // IIIIIIII-IIIFIE ISIIIFIC ISISIFIC ISHIFISIIFIEFII-III ISle चतुर्थे स्कन्धे तृतीयः सर्गः / अथ त्रिदशवीराणां प्राप्तानाममरावतीम् / आसन् कलिनलद्वेषपरिणामाश्रयाः कथाः अहो ! साधु बभूवेदं वैदा यद् वृतो नलः / कष्टं तु यत् कलिः पापी नलमुच्छेत्तुमिच्छति // 2 //