________________ प्रस्तावना। श्रीनलायनस्य II IIIII-III सारेण तत्रस्था भाण्डागारा दृष्टाः किन्तु तत्र तिस्रः प्रतयो नोपलब्धाः, केवलमेक्लेव विद्यते, सूचीपत्रका च तस्य अन्धकारस्य सेतुनाटक- | कर्तृत्वं प्रतिपादितं न तु पञ्चनाटककर्तृत्वम् , उपलब्धासु पूर्वासु तिसूषु प्रतिषु पञ्चनाटकंकर्तृत्वं लिखितं, जेसलमेरुंभंडारसूचीपत्रे सेतुनाटककर्तृत्वं लिखितमिति संदेहे जातेऽस्माभिः जेसलमेरुस्थतपागच्छभण्डारस्था प्रतिः सम्यगवलोकिता किन्तु तत्र नाटकशब्दागे.... इति त्रुटिचिह्नं दत्तं परं न किश्चिदपि लिखितमतः सम्यग्निणेतुं न शक्यते / अस्यां प्रतौ " 1659 वर्षे तपागच्छाधिराजभट्टारकश्री 19 श्रीआनन्दविमलसूरीश्वरशिष्यपण्डितश्रीवानरगणिशिष्य पं. आनन्दविजयगणिभिर्नलायनं काव्यं जेसलमेरुभाण्डागारे मुक्तम्" इति लिखितम् / एवं प्रथमे द्वे प्रती पञ्चदशशताब्दीये, तृतीयायास्तु समयो नोपलभ्यते, चतुर्थ्यास्तु सप्तदशशताब्दीयो लेखनसमयो ज्ञायते ग्रन्थकारस्य विद्यमानता चतुर्दश्यां शताब्द्यामासीदिति च निर्णीयते। . नलायने विशेषः नानाविधैः चित्ताकर्षकरसवच्छन्दोभी रसोर्मियुक्तालकारैरनुप्रासादिभिर्ग्रन्थकर्तुः खलु स्वग्रन्थरचने प्रौढत्वं श्रोतृणां चित्ताऽऽहादकत्वं, पिपठिषूणां चोचाऽऽदर्शशिक्षाप्रदत्वं चाभिव्यज्यते / एतच पूर्वोद्धृतैः श्लोकैः परीक्ष्यते ! - कीदृशस्य नायकस्य चरित्रं वर्णनीयमिति जिज्ञासायाम् नायकाश्चतुर्विधाः साहित्ये वर्ण्यन्तेधीरोदात्ताः, धीरोद्धताः, धीरललिताः, धीरप्रशान्ताश्च / तत्र धीरोदात्तः खलु अविकत्थनः, धैर्यवान् , अतीव गम्भीरः, महासत्त्वो हषशोकयोः समस्वभावः, विनयच्छन्नगर्वः, दृढव्रतः, प्राणविनाशेऽप्यङ्गीकृतपालकः, एभिर्गुणैरस्य चरितनायकस्य धीरोदात्तत्वं ज्ञायते। HIRISHI ING // 5 //