________________ HIDISHISHIRIDIHIsle तस्यार्यकर्णनलिनस्य नलायनस्य, स्कन्धो जगाम नवमो रमणीय एषः // नवमः स्कन्धः, चतुर्थः सर्गः, श्लोकः 36, पृष्ठम् 183 / एतत् किमप्यनवमं नवमङ्गलाकं, साहित्यसारविदुषा कविना कृतं यत् / तस्यार्यकर्णनलिनस्य नलायनस्य, स्कन्धो जगाम दशमः शमसंभृतोऽयम् / / दशमः स्कन्धः, चतुर्थः सर्गः, श्लोकः 23, पृष्ठम् 188 / प्रतीनां लेखनसमयः याः प्रतयोऽस्माकं समीपे विद्यन्ते तासामवलोकनेन ज्ञायते यद् उग्रसेनपुरीया विजयधर्मलक्ष्मीज्ञानमन्दिरतः प्रतिः प्राप्ता या, तस्यां 'वैक्रमीये १४९३वर्षे मार्गशीर्ष शुक्ल पूर्णिमायां तिथौ चंद्रवासरे तालध्वजे दुर्गे पं० गुणकीर्तिगणिपार्श्वस्थितेन पं० कृपासागरगणिना लिखिता श्रावकाणां श्रेयार्था' इति लिखितम् / द्वितीया प्रतिः भावनगरस्थपं०गंभीरविजयभाण्डागारीया, सा च वैक्रमीये 1475 वर्षे भाद्रपदमासे श्रीडूंगरपुरे लिखिता लिम्बाकेन / तृतीया प्रतिः मुम्बापुरीस्थरॉयलएशियाटिकसोसायटीसंस्थाया उपलब्धा / तत्र चायमुल्लेखः___श्रीजीवराजशिवराजकोविदाभ्यामसौ प्रतिर्मुमुचे / चित्कोशे पुण्यार्थ पंडितनीकर्षिशिष्याभ्याम् // 1 // चतुर्थी प्रतिस्तु वटपदग्रामस्थओरियन्टलसोसाइटीनाम्न्या संस्थया प्रकाशिते जेसलमेरुभंडारसूचीपत्रे सूचितासु चतसृष्वन्यतमा तदनु ISISHI-IIIIIII-III FIle