SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ दशमे स्कन्धे. सर्यः१ दशमः स्कन्धः दशमे स्कन्धे प्रथमः सर्गः / नलस्य भवान्तरप्रेक्षणम् // // 183 / / IASIA II III ISite // 4 तयोर्निबिडसंसारक्रीडासरणिसारणिः / अनवस्थितसन्ताना न कापि तुष्टिमाययौ सुरूपं प्रियकान्तत्वं साम्राज्यं रोगहीनता / इत्यमी हेतवः सर्वे स्मराग्निसमिधः स्मृताः 'सातिरेकाणि वर्षाणां लक्षणि नवतिर्ययुः / नित्यं नवनवस्तस्य तथापि मदनोत्सवः 'सौन्दर्यविजितेन्द्रस्य साधर्मिकतया तनोः / आनुगुण्यमिव प्राप नैषधस्य मनोभवः तमन्यदा सभासीनं प्रतिहारनिवेदितः / ऊचे कुशीलवाचार्यः कश्चित् प्रेक्षाणकक्षणे बहवोऽपि त्वया दृष्टाः पृथिव्यां देव ! नर्तकाः / पुनर्नर्तकमेकं मे नृत्यंन्वमवधारय इति प्रश्रावितं तेन क्षिप्त्वा जवनिका जवात् / प्रविवेश भ्रमन् रङ्गमण्डपे ग्रामशूकरः धीरमञ्जीरझात्कारं हारकेयूरमालिनम् / सुकण्टमुकुटाटोपं वल्गत्कनककुण्डलम् विचित्रकरणोपेतैरङ्गहारैर्मनोहरैः / नृत्यन्तं वीक्ष्य तं भेजे विस्मयं सकला सभा तालमानलयैस्तस्य घण्टालीनादिभिः शुभैः। चित्रचित्रतरैश्चित्तं चकृषे विदुषामपि . // . // 8 // ॥युग्मम् // 9 // . // 10 // // 183 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy