________________ // 14 // // 15 // SIDEIIIIIIII-IIIIIII 1959 तस्य पश्यत एव द्राक् स बालः सिंहशावकम् / मातुः स्तनन्धयं धृत्वा तलघातैरताडयत् विधेहि वदनं व्यात्तं दशनान् गणयामि ते / इति तन्मुखमङ्गुल्या बलाद् बालः स कर्षति स न सिंहीभयं धत्ते नासौ स्त्रीभ्यां निवारितः। तयोस्तमपकर्षन्त्योद॑ष्टं तद्वलयं करात् तद् भूमिपतितं ज्ञात्वा दधतुस्ते न तत्करे / तदर्थ च स चुक्रोश शिशुरुत्क्रोशवद् भृशम् / श्रीवत्सलाञ्छनं दृष्ट्वा तं बालं पुलकान्वितः / स्नेहादियेष दुष्यन्तः कत्तुं तद्वलयं तथा निनाय च यथास्थानं स सद्यस्तद्विभूषणम् / दत्त्वा पुत्रं च तं तस्मै युवती ते जजल्पतुः दिष्ट्या त्वमसि दुष्मन्तः सोमवंशविभूषणम् / तत् सर्वदमनो नाम्ना पुत्रोऽयं तव सर्वथा नूनं मरीचिना दत्तमौषधीवलयं ततः / इदमस्य कराद् भ्रष्टं न स्पष्टुमितरः क्षमः इदं पित्रोः परं दृष्ट्वा भस्मीभवति तत्क्षणात् / तत्किं नु बहुना तावत् सनाथाऽद्य शकुन्तला भृमण्डलविहारिण्या भानुमत्या मुखेन च / वेत्ति त्वद्विरहावस्था स्वयं सापि वियोगिनी तदद्य निलये मातुर्वसन्त्या अपि सोत्सवम् / तस्याः पूर्णोऽस्तु दृष्ट्वा त्वामेकवेणीव्रतावधिः मरीचिवन्दनं कर्तुं गच्छन्ती कमलेक्षणा / कल्याणी किश्च सैवेयमित एवाभिवर्तते तयोस्तदिति जल्पन्त्योः सहसैव ससंभ्रमम् / दूराद् ददृशतुर्व्यक्त्या दम्पती तौ परस्परम् गाम्भीर्यकरुणौत्सुक्यत्रपाहर्षतरङ्गितः / दृष्टिपातस्तयोरासीत् सखीभ्योऽपि स्पृहावहः // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // // 27 // OII II IIFISIFIEFIDIHIRISHA