SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ FIII II A || ते ते मन्त्राश्च यत्राश्च यक्षराक्षसवारणाः / प्रतिबोधा इवाभव्ये न तत्र प्रभवन्ति नः // 65 // तस्मादस्मान् समायातान् शरणं तव पार्थिव ! त्वं रक्ष रक्षसस्तस्मात् संसारादिव संयमः नागायुतबलः क्रुद्धो मदान्धो मुद्गरायुधः / स वैरी हन्यतां वीर ! वीरसेनसुत ! त्वया // 67 // दुष्टानां निग्रहो नित्यं शिष्टानामप्यनुग्रहः / अयं परम्परायातः कुलधर्मो महीभृताम् // 68 // विद्वद्भिः सह सङ्गमाय सपदि स्वस्यात्मनः प्रीतये / चातुर्योपगमाय पुण्यपुरुपक्रीडोपलम्भाय च / अर्थानां च समर्थनाय कृतिभिस्त्वं सर्वथा दृश्यसे / नैके केचन वीरसेनतनय ! त्वदर्शने हेतवः // 69 / / द्वीपिन्योरिख जाह्नवीयमुनयोः स्थानं प्रयागः क्षितौ / लक्ष्मीशारदयोस्त्वमेकभुवनं मामण्डलाखण्डल!। तेनैवात्र मनीषितव्यतिकरं निर्दिश्य देशान्तरात् / यातायातमजसमाश्रमममी वर्णाश्रमाः कुर्वते // 70 // प्रतिदिवसमसङ्खथैर्धर्मकर्मोपलम्भैरुपचिनु शशिभांसि स्वैरमुच्चैर्यशांसि / प्रसरतु भवदीयैः कीर्तिकल्लोलजालैर्दशदिशि जलकेलिकीडितं सत्कवीनाम् // 71 // श्रुत्वा तदेतदतुलं वचनं मुनीना-मङ्गीकृतव्यतिकरः परवीरहन्ता / श्रीमन्तमुचमुचितं. चतुरं तुरङ्ग तुङ्गं तरङ्गतरलं त्वरयाऽऽरुरोह // 72 // अथ विदितविचारः शस्त्रवानश्ववारः कृतकलुषनिकारः शत्रुसंहारसारः / निपधपतिरुदारः स्फारशृङ्गारभारः कतिपयपरिवारः कौतुकी सञ्चचार .. // 73 // SET A TERIA FII A
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy