________________ प्रथमस्कन्धे सर्मः 3 इति श्रीमाणिक्यदेव सूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे द्वितीयः सर्गः // 2 // श्री नल-क्रौत्र कर्णयोयुद्धम् / II III II II प्रथमे उत्पत्तिस्कन्धे तृतीयः सर्गः / स प्राप दृष्टिविष्टब्धकुट्टिमस्पर्धिवालुकाः / स्वैरनिर्झरझात्काराः पुरीपरिसरस्थली: ददृशुर्मण्डलाकारमम्भोदमिव दतः / शुकपिच्छच्छविच्छवं तस्योपरि पुरीजनाः // 2 // स जगाम फलश्यामस्निग्धजम्बूकदम्बकम् / अकाण्डनिविडध्वान्तमचलोपान्तकाननम् // 3 // अथाग्रे चोग्रदुर्गन्धं समुभूषितमूर्द्धजम् / दंष्ट्राक्रकचदष्टौष्ठं ज्वलज्वलनलोंचनम् सोऽपि तान् वीक्ष्य सावज्ञमट्टहासैर्भयङ्करैः / त्रस्तपत्वा दिशः कुर्वन्नूचे वचनमुच्चकैः // 5 // रे रे मनुष्यपशवः ! स्थीयतां स्थीयतामिह / कालाघ्राताः समायाता यूयं मद्भुजगोचरम् // 6 // एष वः सरसाहारः तर्षणोत्फुल्लपेशलैः / सुस्निग्धमधुरैर्मीसैधिनोमि जठरानलम् // 7 // इत्युत्थाय गिरेः शृङ्ग क्षेप्तुकामं निशाचरम् / एकाकी तं प्रतीयेष पुण्यश्लोकः परन्तपः // 8 // अरे रे विकृताकार ! दुराचार ! निशाचर ! / ब्रह्मस्त्रीभ्रूणगोधातः कुलधर्मस्तव ध्रुवम् // 9 // BI FIFII IIIIIIIIII IIFEI ||