________________ IIISTIATIATI AIIIIIIile भो भोः शृणुत भूपालाः! राजपुत्र्याः प्रतिश्रुतम् / यः समस्याश्चतस्रो मे पिपर्ति स वरो मम // 4 // छिद्यमानोऽपि शस्त्रेण द्वेधा भवति न द्रुमः / किमत्र कारणं वाच्यं ? स्फुटीकुरुत पार्थिवाः! // 5 // अनाक्षिप्तोऽपि पग्रिन्या निःश्वासं विसृजत्यलिः / किमत्र कारणं वाच्यं ? स्फुटीकुरुत पार्थिवाः! // 6 // दिवापि चक्रवाकानां मिथुनैर्यद् विभज्यते / किमत्र कारणं वाच्यं ? स्फुटीकुरुत पार्थिवाः! // 7 // सलिलेनापि नापैति कुङ्कुमं यद्वधूमुखात् / किमत्र कारणं वाच्यं ? स्फुटीकुरुत पार्थिवाः! // 8 // इति प्रत्युत्तरं तत्र राज्ञामप्रतिपेदुषाम् / पपाठ शङ्खभृपालः समस्यास्ता यथान्वयम् // 9 // स हि च्छायामयो वृक्षो निःश्वासो विरहोष्मवान् / मुखं दर्पणसंस्थं च राहुग्रस्तश्च भास्करः // 10 // इति पूर्णासु सर्वासु समस्यासु यथा स्वयम् / वृणोति स्म द्रुतं शङ्ख सत्यसन्धा कलावती // 11 // तस्मिंस्तुल्यगुणे युग्मे स्तूयमाने मुदा जनैः / चक्रे हृदि नरेन्द्राणां प्रसरं मत्सरज्वरः // 12 // अन्तर्निविडरोषास्ते बहिर्दर्शितसम्मदाः / ययुर्दशार्णमापृच्छथ पथि शङ्ख रुरुत्सवः // 13 // विधि समाप्य वैवाह्य पथि कान्तासमन्वितम् / स्वदेशाभिमुखं शङ्ख व्यगृह्णन् वसुधाभुजः // 14 // तत्राजनि महायुद्धं रेणुरुद्धदिवाकरम् / शब्दस्पर्शपरिज्ञेयहस्त्यश्वरथसैनिकम् // 15 // पतद्भिर्वैरिणां विष्वम् विशिखैर्मर्मभेदिभिः / दिदीपे तस्य वीर्याग्निः समिद्भिरिव निर्भरम् // 16 // न तस्य ददृशे किश्चिद् व्याप्तस्य रिपुसायकैः / शलभैरवकीर्णस्य द्रुमस्येव महीयसः // 17 // IIIIIIIIIIIFIFI