________________ तृतीयस्कन्धे सर्गः८ शारदा दमयन्तीं. परिचयं कारयति // @al RISHI III-IIIIIII यावद् मीमसुतार्थिनो नलरुषा संक्षोभयन्तः सभां व्यावल्गन्ति महीभुजो भुजबलैः कोलाहलव्याकुलाः। ' तावद् दिक्पतिभिः समं स भगवान् प्रत्यक्षरूपः प्रभुर्वजं वज्रधरः करेण कलयन्नुच्छल्यमित्युचिवान् // 35 // भूपालेषु विदर्भराजसुतया पत्यौ वृते नैषधे रोषाद् यस्य हि कस्यचित् किल शिरःशूलं समुत्पत्स्यते / मद्वजाहतिजर्जरं जडमतेस्तस्याधुना मिश्रितं साक्षादार्जकमञ्जरीव शतधा शीणं शिरो यास्यति // 36 // प्रस्थाने स्थितिषु स्थलेषु च जले रात्रौ तथा वासरे स्वप्ने जागरणे वने च भुवने दुःखे सुखे वा क्वचित् / भैमी भोक्तुमतः परं बलमुखो यः कश्चिदारिप्सते पापात्मा भुवि भस्मसात् स भविता दत्तो मयाऽयं वरः // 37 // तव च पार्थिवनायक ! जायतां ध्रुवमपत्ययुगं युगपावनम् / जलधराच मनीषितवर्षिणो नल ! भवन्तु भुवं त्वयि शासति // 38 // अथ यमस्तमभाषत पार्थिवं मम गिरा मिथुनप्रसवस्य यत / अपरुजःपुरुषायुषजीविनो जगति जानपदास्तव सन्त्विति // 39 // तमवदद् वरुणः पृथुकद्वयं त्वमधिगच्छत वैभववाञ्छया / जलमपि स्थलतां व्रजतु ध्रुवं भवतु वापि तदीयविपर्ययः // 40 // हुतवहोऽपि बभाण शिशुद्वयं भवतु ते भवतश्च मनीषया / अविकृतस्य महामदसाधनं मिहिररश्मिषु सङ्क्रमणं मम // 41 // IA II II ISHITISING