________________ द्वितीयस्कन्धे सर्गः२ // 32 // II-IIIASRIGATII AIII IIITRIK आस्तुष्टाः स्म भवद्वृत्तः किमन्य विजयी भव / हन्त ! कालमसङ्ख्यातं त्रिदिवं वीर ! पालय // 22 // युद्धाध्वरहुतासूनां योऽयं राज्ञामनागमः। तमाकर्णय वृत्तान्तमन्तःकरणकार्मणम् // 23 // जयत्यनुपमा तत्र कुमारी भूविभूषणम् / दुहिता भीमभूभ र्दमयन्तीति विश्रुता // 24 // न तस्याः सदृशं रूपं भूर्भुवःस्वस्त्रयेऽपि हि / कुत्रापि श्रूयते काले भूते भवति भाविनि // 25 // जगद्युवजनोत्तंसे शुद्धवंशे महौजसि / सा. क्वचिद् भजते भावं भामिनी सुभगेऽधुना // 26 // न च विज्ञायते कश्चिद् यस्तस्या मनसि स्थितः। लज्जा जवनिका यस्य न ददाति प्रकाशताम् // 27 // सचितानङ्गसन्तापैरङ्गैविरहवादिमिः / तां वीक्ष्य तद्गुरुस्तस्याः समारेमे स्वयम्वरम् // 28 // वहन्त्यद्य दिवानक्तं स्थलेषु च जलेषु च / दिशां च विदिशां चैव पन्थानः पथिकवजैः // 29 // त्यक्तप्राक्तनवैराणां राज्ञामेकत्र गच्छताम् / जिनेन्द्रपरिषत्प्रायं पृथ्वीतलमजायत // 30 // सौभाग्यनिकषे तस्मिन्नद्य भैमीस्वयम्बरे / स पङ्किपतितो राजा यो नागच्छति सत्वरम् // 31 // येषु येषु रता भैमी भूषणेषु गुणेषु च / तेषु तेषु विशेषो यः पुरुषार्थः स भूभुजाम् // 32 // प्रत्यूहः प्रत्यहं सोऽयं साम्प्रतं रणकर्मणः / भैमीसुरभवोर्लामे राज्ञां हि महदन्तरम् अधिकं त्रिदशस्त्रीभ्यो जीवद्भिर्यदि लभ्यते / तन्मृत्वा स्वर्गमागन्तुं को विशेषो महीभृताम् // 34 // व्याप्तं च सर्वतो मञ्चप्रतिमञ्चध्वजादिमिः / शुभैः स्वयम्बरारम्भसंभ्रमैः कुण्डिनं पुरम् // 35 // दमयन्त्याः स्वयम्वरकाले हिमाद्री नारदपुरन्दरयोचर्चािलाप IIIIIIIIIIFile // 32 //