________________ IIIEIAHINSEII A एते व्योम्नि स्थगितवपुषो लोकापाला वदन्ति प्रीतश्च त्वां क्षितिप ! भगवानादिशत्येष शंकः।। लोकातीतेऽप्यशिवसमये शीललीलाविशेषैर्दीर्घोत्तीर्ण कनकमिव हि स्वीकुरु स्वं कलत्रम् // 39 // सुरपतिवचनेन निःकलङ्का मम दयितेनि तुतोष भूमिपालः। कलिकृतमिति च प्रियव्यलीकं नृपतिसुतापरिहारजं विषहे॥४०॥ ततः क्लेशप्राप्तप्रियविरहकालासहतया सखीभिर्वेदाश्चरणपतिताभिस्तरलितः / स्वयं बिल्वद्वन्द्वं तदथ विघटय्य क्षितिपतिर्दधौ वेषं कर्कोटकभुजगदत्तं दृढभुजः राजा राजा स खलु विजयी नैषधो नैषधोऽयं दिष्ट्या दिष्ट्या बत जितमहो मङ्गल मङ्गलं नः / इत्यानन्दव्यतिकरजुषां लोककोलाहलेन व्याप्तं सद्यः सकलमभवद् व्याकुलं राजवेश्म / / 42 // .तदनु जय जयेति प्रस्तुतोचारपूर्व सुरभिकुसुमवर्षानन्तरं दत्तहर्षाः / जलमुच इव लक्षा दध्वनुर्दुन्दुभीनां दिवि भुवि च समन्ताद् निर्जराणां नृणां च // 43 // आनन्दाश्रुप्रकररचितस्फारमुक्ताफलौषक्लृप्तातिथ्यः सह गहवरी कोटिभिर्भीमपुत्र्याः भेजे राजा कनकरचितं रत्नवद् भद्रपीठं देवः साक्षादिव सुरगिरेः शृङ्गमम्भोजिनीशः // 44 // भर्तुषं नयनविषयं केशिनी वीक्ष्य रेमे स्वं भर्तारं करतलगतं प्राप्य भैमी मुमोद / क्रोडीचक्रे पितरमचिरादिन्द्रसेनः सजामिनत्वा तस्थौ परिवृतिपरः पार्श्वतो भृत्यवर्गः // 45 // इति श्रीमाणिक्यदेवसूरिकृते नलायने सप्तमे स्कन्धे पञ्चमः सर्गः॥५॥ IASHI ATHI AIIEII II