________________ पञ्चमे स्कन्धे सर्गः१३ // 124 // MISSII - IIIEITE IIIFE आजन्मतोऽपि साम्राज्यं वनवासो ममाधुना / पूर्वमारण्यकी सा तु वनवासाद् न यते // 3 // अथवा मा स्म भूद् विश्वे कस्याश्चित् कष्टमीदृशम् / अहमेव यतः पापा पापानामेकभाजनम् इति दुःखाग्निबाष्पौघं सृजन्तीं क्षितिभृद्भवम् / महामुनिपयोदस्तामभ्यवर्षेद्वचोऽमृतेः आयाति यद् यदा यस्य दुःखं किमपि देहिनः / अपि स्वल्पमनल्पं वा तत् तदा तस्य दुस्सहम् // 6 // अपि नाम कलावत्या यदि तावत् तथा स्थितम् / त्वमित्थं गतमात्मानं नैकं शोचितुमर्हसि // 7 // भृणु ते कथयिष्यामि कलावत्याः कथामहम् / यामाकर्ण्य त्वमात्मानं दुःखितं नैव मन्यसे // 8 // जावालपुरभूपालः शङ्खः सुखमहोदधिः / उदात्तधीरललितः कलावान् विनयी नयी रूपेण जितकामस्य विक्रमेण हतद्विषः / विद्वद्गोष्ट्या ययुस्तस्य निश्चिन्तस्यैव वासराः // 10 // अन्यदा पुरपर्यन्ते भ्रमतस्तस्य वाजिभिः / सैन्यस्येव रजोराशिः सनिःस्वानः पुरोऽभवत् // 11 // तद् विज्ञातुं तदादिष्टाः शीघ्र विज्ञाय सादिनः / व्यजिज्ञपद प्रसन्नामि रिभरञ्जलिमौलयः सार्थः स्वपुरवास्तव्यो देव ! देशान्तरादयम् / आदाय सारभाण्डानि कुशलेन समागतः / // 13 // इभ्यसाधुर्गजो नाम्ना सार्थनाथश्च पार्थिव ! / भवन्तं दृष्टुमभ्येति तदसावनुगृह्यताम् // 14 // इति श्रुत्वा तमाभाष्य नामग्रहणपूर्वकम् / सरस्तरुतलासीनस्तस्य सेवाक्षणं ददौ // 15 // स महाघ तदानीतं वस्तुजातमुपायनम् / स्वीकृत्य सुप्रसन्नः सन् तं निःशुल्कमचीकरत् // 16 // दमयन्त्या आश्वासनाय भास्करशिष्येण कथिता पड कलावत्याः कथा॥ // 124||