________________ . // 58 // // 59 // // 60 // // 61 // IIIIIIIIIEISHIFISite कनकमयमपूर्व श्रीफलद्वन्द्वमस्मै मणिपरिकरचित्रं चारु दत्त्वा जगाद अहं पितृव्यस्तव वत्स ! पूर्व जातः पुनः संप्रति कर्मयोगात् / लोकान्तरे नागकुमारवृत्त्या कर्कोटकाख्यो भुवनाधिनाथः ज्ञात्वाऽवधिज्ञानवलेन सर्व तवाऽऽगतं संप्रति कष्टमेतत् / सानिध्यमाधातुमुपागतोऽस्मि मा विस्मयं चेतसि वत्स ! कुर्याः दुनोति हि प्राक्तनकर्म बद्धं भवन्तमद्य प्रतिहस्तरूपः। अग्राह्यनामा खलु देव एकस्त्वयाऽनुगम्यः समयान्तरे स: एकाकिनः शत्रुभयं विचिन्त्य रूपं परावृत्तमिदं मया ते / स्वच्छन्दचारी चिरमीशस्त्वं सुरक्षितः स्थास्यसि दुर्जनेभ्यः यहि स्वरूपं तव कर्तुमिच्छा तर्हि द्रुतं बिल्वसमुद्गमेतत् / उद्घाख्य वस्त्राभरणानि दध्याः प्रपत्स्यसे त्वं प्रकृति पुराणीम् अहं च मुञ्चामि सुखप्रदेशे कुवासरान् यापयितुं भवन्तम् / अलध्यभावाद् भवितव्यतायाः कत्तुं परं नाहमपि क्षमस्ते इदं वदन् व्योमविसर्पिगन्धै-रन्धीकृतालिवजमातनद्भिः। IIIIIIEISSIFIEFICIFI FIFle // 62 // = // 63 // // 64 //