SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ चतुर्थे स्कन्धे सर्गः६ कले छिद्र| प्रवेशान प्रतिज्ञाभ्रष्टो नलः॥ // 81 // DIIIIIIIIIII AIIIIIII अक्षान् देवितुमारेभे स.सभायां सकूबरः / प्रतिष्ठाभङ्गमूलं हि द्यूतकारस्य चेष्टितम् आससाद तदा राजा वारं वारं पराजयम् / वामत्वं मन्मथस्येव द्यूतस्य हि परा रतिः हस्त्यश्वरथवारखीग्रामाकरपुरादिकम् / यद् यत् पणं नलश्चक्रे तत् तत् सर्वमहारयत् न ददर्श पुन:मी न द्यूताद् विरराम च / दिने दिने ददौ दुःखं जिगीषुरधिकाधिकम् // 9 // अक्षक्रीडाविदग्धोऽपि कूबरण स निजितः / न कश्चिदथवा विद्वान् देवस्यैकस्य कौशलम् // 10 // न तं चकमिरे पौरा न भृत्यास्तमजीगणन् / उपेक्ष्य मत्रिणस्तस्थुरसद्व्यसनिनं नृपम् // 11 // हीयमानः श्रिया नित्यं स त्यक्तः सेवकैरपि / अन्वगच्छद् जनः सर्वः कूबरं जितकाशिनम् // 12 // पद्मतः कुमुदं याति सन्ध्यायां मधुपव्रजः / धिक ततश्चापलं लक्ष्म्यास्तदासक्तं जनं च धिक् // 13 // किं कुर्वन्ति महामात्याः कस्य साध्यो हि भूपतिः ? / क नु शक्यः करी कर्णे धत्तुं मदभरोद्धरः // 14 // म्लानेव निखिला बुद्धिर्विक्षिप्तमिव वायसः / विध्यातमिव धामापि नलस्य कलिकोपतः अत्यगाधोऽप्यपारोऽपि कलशोद्भवमूर्तिना / जग्रसे कलिना शीघ्रं लीलया नलसागरः // 16 // द्वाररोधेन सामन्ता अनुद्घाटैर्वणिग्वराः / लङ्घनैश्चापि दायादास्तं दीव्यन्तं न्यवारयन् आरूढपतनाशङ्की कूबरोऽपि न्यषेधयत् / नैव तस्थौ पुनर्दीव्यन् हारव्यावृत्तये नलः * // 18 // धिगहो ! पैतृकी लक्ष्मी द्यूतेन गमयत्यसौ / वरमभ्रषज्वाले न जुहोति हुताशने // 19 // IIIIIIIIIIIIIIIIII // 8
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy