SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ काजल नवमः स्कन्धः। नवमे स्कन्धे प्रथमः सर्गः। // 1 // // 2 // IIIIIIIIIIIIIII-IIlle // 4 // अथ नत्वा सपत्नीके नृपतौ पुरतः स्थिते / उवाच विशदां वाचं वाचंयमशिरोमणिः राजन् ! स्वभावभव्यस्य भवतो धर्मदेशनाः / दीयमाना विराजन्ते कपूरे पुष्पवासवत् राज्यं विभवसंपूर्ण भार्या भक्तिपरायणा / धर्मश्रद्धाचितं चेतश्चिन्त्यते किमतः परम् राजन् ! दमनकस्याहं सतीर्थ्यस्तथ्यवाग् मुनिः / अर्थानुगामिना नाम्ना विश्रुतः श्रुतसागरः तत् किमत्र बहूक्तेन ममाशीयुवयोरियम् / त्वमिवान्योऽपि सर्वोऽस्तु नृपतिधर्मतत्परः तमेवं वादिनं विद्वान् शत्रुकालानलो नलः / व्याजहार हरन् चित्तं साञ्जलिर्जलजाननः भगवन् ! धन्य एवास्मि सर्वथापि जितं मया / यमेवमनुरुध्यन्ते निर्ममास्त्वादृशा अपि कलिर्जितः प्रिया प्राप्ता साधिता भरतावनी / करोति न तथा हर्ष यथा युष्मत्कृपा मयि भगवन् ! सर्वसामान्ये मानुष्येऽपि हि तिष्ठति / अलौकिकमिदं देव्या ललाटतिलकं कुतः ? कथं च विरहो देव्याः कश्चित् कालमभृद् मम / त्रिखण्डभरतैश्वर्य कथं वाधिगतं मया BIIIIIIIIIIIII // 8 // // 9 // // 10 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy