SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ // 16 // II IIIIle IIANSHI A TERI III &ISe // 17 // // 18 // II आपातजर्जरतरैः पृथुभिः समन्ताद् विक्षिप्तसूक्ष्मकणिकोत्करके सराढ्यैः / तद्वाष्पविन्दुभिरभूष्यत भूमिपीठं सद्यः कदम्बकुसुमप्रकरं हसद्भिः हा! तात ! तात ! विहितखिदशैस्तवायं क्रुद्धः स्वयम्वरविधिविफलः सुतायाः / यस्याः स्वकीयमपि नास्ति सुखं हताशा सा किं करोतु तनया तव तात! सौख्यम् हा नाथ ! विश्वजनवत्सल ! मां कथं न श्रीवीरसेनसुत ! रक्षसि दिक्पतिभ्यः / आराधिता हि सततं भवता पुराऽपि स्थास्यन्ति किं तव ते मुखलज्जयापि ? श्लाघ्यस्त्वदर्थमिह मृत्युरपि ध्रुवं मे भूयात् त्वया सह वरं नरकेऽपि वासः। यः पूर्वमित्थमिह मे हृदयं दुनोति कीदृक् करिष्यति सुखं त्रिदिवा स पश्चात् यस्मिन् पुराणसुकृतव्यय एव नित्यं नैवार्यतेऽभिनवधर्मलवोऽपि यत्र / उच्छशलः परिवृढः कठिनाश्च भृत्यास्तस्मै नमोऽस्तु सकलाय सुरालयाय हा तात ! हा जननि ! हा स्वजनाः! समस्ताः / कस्य प्रयामि शरणं शरणोज्झिताऽहम् / युष्मासु कः किल ममाद्य नलं हि कान्तं ? कर्तुं क्षमः प्रकुपितेषु दिगीश्वरेषु प्राणाः प्रयान्ति मम नूनममी इदानीं जिह्वे ! समुच्चर भृशं नलनाममन्त्रम् / यन्नैकदाऽपि दयितेन निरीक्षिताऽहं तन्मे दुनोति हृदयं मरणागमेऽस्मिन् // 19 // // 2 // FII A // 21 // BlLAIFI AEI // 22 // BIFI
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy