SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ उपायानां भ्रंशाद् निरवधिनिरालम्बमचिरादहो! चिन्तारूढं कथमिदमिति भ्राम्यति मनः॥ 31 // इत्थं किश्चित् कलितकरुणाकामकौलीनलज्जं भूयो भूयो मनसि विमृशन् भूमिपालप्रदीपः / ईषत्कालं कथमपि चिराद् मीलिताक्षः प्रपेदे निद्रानाशं दिवसवदने किन्नरद्वन्द्वगीतैः // 32 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे षष्ठः सर्गः // 6 // द्वितीये दूत्यस्कन्धे सप्तमः सर्गः / III RIFII A LEGA MEIN - III WIFI III स प्रभाते महाप्राज्ञः प्रतिज्ञां हृदि चिन्तयन् आसीत् कार्याय देवानां कुण्डिनं गन्तुमुत्सुकः // 1 // कृतप्रभातकृत्येन तेन द्रष्टुं समीहितः / उपतस्थे प्रयाणोवीं पुष्कराक्षः सकिन्नरः // 2 // स तस्मै दत्तसारथ्यः पृथ्वीपतिशतावृतः। सहस्रतुरगोदाचं प्रतस्थे रथमास्थितः विनिहतविषादस्य सविशेष प्रसेदुषः / आसन् पथि कथास्तास्ताः पुष्कराक्षादिभिः समम् // 4 // एतानि तानि वरदातटमुत्तरेण प्रासादशृङ्गमिलितारुणमण्डलानि / सर्वत्र दर्भरहितस्य विदर्भनाम्नो देशस्य देव ! नगराणि महागुरूणि एतच्च भूतिलक ! भीमनरेश्वरस्य श्रीपत्तनं तदिति जल्पति पुष्कराक्षे /
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy