________________ सप्तम. स्कन्के सर्गः३ कुब्जरूपधारिणे नले विभ्रमः // MIII-III-IIIIIsle इत्युक्त्वा लब्धताम्बूलः प्रणम्य स विनिर्ययौ / प्रपेदे तेन विततां प्रीति भीमरथोऽपि हि // 20 // तं तथागतमाकर्ण्य सकुब्जं नृपमागतम् / दमयन्ती दधौ चित्ते जनन्या सह विस्मयम् // 21 // जामातैव ध्रुवं चाम्ब ! निविलम्बमयं तव / दृतोक्तदिवसाचं रात्रिरेवान्तरे गता // 22 // न कश्चिद् वेत्ति तं मुक्त्वा खेचरस्वामिनं विना / तुरङ्गहृदयं मन्त्र ऋतुपर्णः परोऽपि वा // 23 // वत्से ! वदामि तत् सत्यं प्राप्नो मे दुहितुः पतिः / नथापि कुब्जरूपस्य निर्णगोरग विधीयताम् / / 2 / / तमद्य हस्तसंप्राप्तमृतुपर्णस्य सेवकम् / प्रविश्य विविधोपायैर्वितर्कयतु केशिनी * इति ताभ्यां समादिष्टा केशिनी मर्मवेदिनी / ययौ कारणदामी मा तत्र विद्याधराङ्गना * स्फुरन्पक्ष्मपुटद्वन्द्वं तच्चक्षुर्दक्षिणेतरम् / लोलत्वेऽपि नलप्राप्तौ चकार स्थिरनिश्चयम् // 27 // महिनामिन्द्रसेनेन कराङ्गुलिविलम्बिना / तां ददर्श समायान्ती साभिप्रायतया नलः 1 // 28 // नूनं सुदैवतः श्रुत्वा मूदं मां सूपपाकिनम् / छद्मस्वयम्वरोदन्तो दमयन्त्या प्रपश्चिन: // 29 // छलितो राजपुत्र्याहं ऋतुपर्णश्च पार्थिवः / ममाश्वहृदयज्ञत्वं प्रियया प्रकटीकृतम् . ऋतुपणों वृथोत्कण्ठो वृथारोषः स्थितोऽस्म्यहम् / तस्या हास्यावुभौ जातौ शाखाभ्रष्टौ कपी इव / / 31 // इयं च प्रहिता देव्या नूनमायाति केशिनी / इन्द्रसेनं च दृष्ट्वा मे जाते बाष्पाकुले दृशौ // 32 // धिग् वज्रहृदयं घोरं दुर्भेयं मां नगधमम् / पुत्रदर्शनयोगेऽपि यम्य न स्निग्धता हृदि // 33 // 9IIIII-IIIEIFIERIFIFIE IS