SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ // 3 // // 4 // // 8 // IIIIIIIIIIK नरेन्द्रकमलाधारं लोकशोकमलापहम् / कमलाक्षि ! विमुच्यैनं कमलङ्कर्तुमर्हसि इत्थमुक्तवती देवी मौनं कर्तुमजिज्ञपत् / सा लीलयैव कुर्वाणा कर कुड्मलमीलनम् पुरस्थनृपनेपथ्यसाताकृतिदर्शनात् / तद्विरक्तिविदः शीघ्रं जन्या याति स च स्वयम् अभ्यधायि पुनर्देव्या पुरस्तन्वङ्गि! नन्वयम् / अङ्गाधिपतिरध्यास्ते पुरी पुष्पकरण्डिनीम् भातिभिन्नेभकुम्भस्य सख्ये विक्षिप्तमौक्तिकः / अस्यासिः करकासारं कुर्वाण इव वारिदः इति स्तुतिपरां भैमीदृक्तरङ्गप्रणोदिता / अकाले दत्तकर्पूरा चेटी देवी न्यवारयत् उवाच वाचं पुनरेव देवता वितीर्णहर्षा विदुरां विदर्भजाम् / इमं पुरस्तक्षशिलापुरीपतिं प्रतीच्छ निर्मत्सरमुच्छलद्गुणम् शाभिधस्य धनुषः पुरुषप्रवीरः कर्णे करोति विदुषां च गुणं गुणज्ञः / एकत्र यत् पुनरयं दृढबद्दमुष्टिरन्यत्र मुक्तकर एव तदद्भुतं नः न गिरिपु न च बजे केवलं मांसमात्रे क्षिपति विभुरयं यत् तेन लजाधिकं नः / इति दलितविपक्षाः मातलं यान्ति नाशं समरशिरसि बाणा यस्य दण्डप्रमाणाः गुरुरिति कविसाथै रथिभिः कल्पवृक्षः स्मर इति रमणीभिरिभिर्वज्रपातः / जनक इति जनौघेर्योगिभिश्चापि नित्यं नरपतिरयमेकः स्मयतेऽनेकरूपः II IIIजIनIकाल // 9 // // 12 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy