________________ तृतीयस्कन्धे सर्गः६ शारदा दमयन्ती परिचयं कारयति॥ // 62 // II-IIATIATERIATERII NITIATile क्वापि प्राङ्गणभूमिका क्वचिदपि प्रच्छाद्यते स्थण्डिलं धाराणां निकरैरपि प्रतिदिनं धाराधरे वर्षति / ' अस्य क्षोणिधवस्य विश्वजयिना खड्गस्य धाराद्वये मनानि द्विषतां गृहाणि सहसा शैलाग्रलग्नान्यपि // 13 // दानिना विनयिना विवेकिना मानिना प्रणयिना यशस्विना / नन्वनेन वसुधासुधांशुना गूर्जरेण सह गौरि ! गम्यताम् // 14 // अयं च चञ्चद्गुणवल्लिपल्लवः समुल्लसन्छौर्यरसैकपल्बलम् / अवन्तिभर्ता विततायतेक्षणः क्षिणोति दुःखं सुमुखि ! क्षणादपि // 15 // कन्दर्पाकुलिता मनाक् मुकुलिता लावण्यकल्लोलिता लीलासंवलितास्त्रपाशबलिता भावोदयान्दोलिताः / कर्णान्तस्खलिता विलोमवलिताः प्रज्ञाबलोन्मीलिता नन्वस्मिन् निपतन्तु सन्ततममी नेत्रत्रिभागास्तव // 16 // इति हि चतुरगम्यैश्चेष्टितैः सावहित्थैः प्रतिपदमपि भैम्या विस्तर वार्यमाणा / उचितसमयमानं देवता तत्र वाचामकथयदभियुक्ता भूयसो भूमिपालान् प्रेमाकुलेऽपि सकले सति राजलोके चित्तं चकर्ष पुनरेव नलस्तदीयम् / के के रुचिं विरचयन्ति च चन्द्रिकायां तत्पानकर्मचतुरस्तु चकोर एव // 18 // राजकादपगमय्य ततस्तां रक्तकोकनदकोरकहस्ताम् / आनिनाय नलपञ्चकमचं यानधुर्यनिवहः सहसैव // 19 // 2 // 62 //