SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ जानाति जनवृत्तान्तं याम्यदिग्विषयं खगः। तेन मे कथिता भैमी नलं प्रत्यनुरागिणी // 27 // एते च तेन दक्षेण स्वयं दृष्टा महात्मना / तस्या नलानुरागिण्या वृत्तान्ताः कथिता यथा // 28 // अध्यासीना भुवनजयिनो भीमभूभ रङ्के नित्यं भैमी निजभुजबलत्रासितक्रौञ्चकर्णम् / / श्रुत्वा श्रुत्वा निषधनृपति बन्दिभिः स्तूयमानं वारं वारं सदसि कुरुते कर्णकण्डूयनानि // 29 // चिन्तां चक्रे निशि निपतिता भीमभूपालपुत्री स्वमे दृष्ट्वा सुभगतिलकं नन्दनं रूपवत्याः। मुग्धा तत्तद्विपुलपुलकस्वेदकम्पानुविद्धा कुत्रास्मीति क्षणमशरणा न प्रबुद्धवापि वेत्ति // 30 // कृत्वा किञ्चिन्मनसि निभृतं नैषधेन्द्रस्य नाम्ना जातिव्यक्तिव्यतिकरमयं रूपकं रागशुद्धथा। शुष्यत्कण्ठी तदनु सहते नागमेन प्रयोक्तुं नो वीणायां श्रमजलभरैरङ्गुलीपर्वभिर्वा // 31 // स्वमे चित्रे दिशि दिशि दिवा नक्तमन्तःस्फुरन्ती पश्यन्ती वा निषधनृपति भीमभूपालपुत्री। सद्यस्तिर्यग्वलितललितप्रान्तविभ्रान्तनेत्रं दीर्घश्वासं वहति वदनं दीनवृत्तिं प्रपन्ना // 32 // शिशिरतरतरूणां क्वापि वार्ताप्रसङ्गे कथमपि नलनाम्ना वर्ण्यमानं सखीभिः / तृणमपि खलु बाला पद्मनालायमानैः सरभसमपि धत्ते कम्पमानैः प्रतीकैः तथा च भूमण्डलचारिणीभ्यस्तमोऽपहोपासनतत्पराभ्यः / श्रुतो मया दिव्यविलासिनीभ्यस्तस्यां नलंस्यापि महानुरागः // 34 // .
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy