SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ IIIIIIIII-IIIEFIFIERIFIEI क्षुधितस्य क्षुधा भग्नां तृषितस्य तृषा हृता / श्रान्तस्यं च श्रमश्छिन्नः स्वशक्त्या प्रतिवासरम् / // 4 // अन्यदा प्रथमप्रावृट्समये समुपागते / सजीवधनमात्मीयं द्रष्टुं धन्यो बहिर्ययो. वर्णावयवसम्बद्धदरादाहूय नामभिः / अलालयद् यथौचित्यं स धेनुमहिषीनिजाः तदा च कश्चिदप्येकः कायोत्सर्गस्थितो मुनिः / तत्र पापरित्राणमात्रवस्त्रावृतोऽभवत् // 7 // स वृष्टिसकलक्लिष्टशरीरस्य महामुनेः / तस्य मृर्द्धनि धन्यः स्वं तत्र च्छत्रमधारयत् मुनिस्तस्येत्थमासन्ध्यमवन्ध्यपरिचर्यया / वायुवृष्टिव्यथावेगं निस्ततार सुदुस्तरम् अपृच्छच्च मुनि धन्यो नत्वा मधुरया गिरा / कुतः क्व गन्तुकामोऽसि ? कथ्यतां भगवन्निति // 10 // मुनिरप्यूचिवान् पाण्ड्यदेशात् लङ्कापुरीं प्रति / नतये गुरुपादानां एप गच्छन् किलाभवम् इमं तु सांप्रतं वीक्ष्य वर्षासमयमागतम् / इहैव स्थातुकामोऽस्मि जन्तुबाहुल्यतो भुवः // 12 // इदमाकर्ण्य वन्योऽपि तं नेतुं निजमन्दिरे / ददौ महिसमारोटुं पङ्कसङ्करशङ्कया योग्यं न यानमस्माकमित्युक्त्वा श्रमणाग्रणीः / पद्भ्यामेव पुरस्यान्तः समं तेन समाययौ // 14 // तत्र पीयूषतुल्येन पयसा भक्तितत्परः / अकारयद् मुनि धन्यः पारणं पुण्यकारणम् सोऽपि तस्मै सभार्याय कुर्वन् धर्मानुशासनम् / प्रतिपाल्य मुनिः कल्पं जगाम गुरुसन्निधौ // 16 // तदादि धर्मसंपच्या धूसरीधन्ययोस्तयोः / वहतोश्चारु गार्हस्थ्यं जज्ञे परिणतं वयः // 17 // .
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy