________________ ना-ISHI ANITIATII IIIIFle रथनरकरिवाजिनां सहस्तिलतुषतुल्यतयापि वीक्ष्यमाणैः। कथमपि न कलावती प्रपन्ना दुरधिगम खलु वस्तु कार्यकाले // 40 // गिरितरुसरितामपूर्वभावं वहति वने वनदेवताप्रभावात् / समजनि हृदि रोषणादिकानामपि तदिदं न वनं किलेति मोहः // 41 // क्षितिपतिदुहितुः श्रुतिं जगाम द्रुतमतुलस्तुमुलो बलबजानाम् / तदपि न हृदयं पुनश्चकम्पे ननु रतिरेव हि भाविभाग्यदूती // 42 // सैवाग्रतः कलय शङ्ख ! कलावतीयं साक्षादिति त्वरितमेत्य ततः कुतोऽपि / आरुह्य दूरमुदयाचलचूलिकायां निर्दिष्टवानिव करप्रकरैः पतङ्गः // 43 // इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे सप्तदशः सर्गः // 17 // IASHIINIIIIIIIIIIIII पञ्चमे स्कन्धे अष्टादशः सर्गः / अथ तत्र जनैः प्रातः पुत्रहंसोपशोभिता / दृष्टा चलत्कराम्भोजा नलिनीव कलावती जितं जितमहो दिल्या देवी देवीयमग्रतः / अक्षता पुत्रयुक्ता च निषिण्णास्ति नदीतटे // 2 // .