________________ तं मत्स्योदर इत्याख्यां दत्वा राजा कुतूहलात् / ललिताकारमालोक्य चकार स्थगिताधरम् ज्ञात्वापि सहवासं स्वमात्मानं निजुगूह सः। यत् किश्चिदाख्याय जनं पृच्छन्तं विप्रतारयन् अथ प्रथमपोतेशः प्राप्तस्तद्धनसंयुतः / राज्ञा स मानितस्तत्र तिष्ठन् तं वीक्ष्य नीतवान् मत्स्योदरोऽपि कालज्ञो नारेभे सहसैव तम् / सोऽपि भीतोऽस्य जग्राह पारंपयं जनाननात् ततस्तत्प्रेरिता मत्ता मातङ्गा गानतत्पराः / नृपवेश्मनि तं शीघ्रमालिङ्ग्य रुरुदुर्यथा अहो सहोदरोऽस्माकमयं रुष्ट्वा गतोऽभवत् / दिष्ट्या चिराच्च दृष्टोऽद्य तेनोक्तं वा रुणद्धि नः तछत्वा स क्रुधा पृष्टः किमेतदिति भूभुजा / मत्स्योदरोऽवद् देव ! सर्व सत्यमिदं ध्रुवम् अहमेषां कनिष्ठोऽस्मि ज्येष्ठाः सर्वेऽपि खल्वमी / केवलं पञ्च रत्नानि ममोरौ निदधे पिता एषां कक्षाशिरःस्कन्धकुकुन्दरकरादिषु / सर्वत्र निदधे तानि तेन नष्ट्वा गतोऽभवत् इत्युक्त्वा दर्शयामास रत्नान्यरुं विदार्य सः / प्रत्युत्पन्नमतेरन्यः कथं राज्येषु नन्दति इमान् विदार्य दृश्यन्तां रत्नानीति नृपाज्ञया / प्रारब्धास्तेऽप्यभाषन्त भ्रातायं सर्वथा न नः पोतेशप्रेरितैरेतद् मिथ्यास्माभिः प्रजल्पितम् / रक्ष रक्ष महाराज! न मृषा ब्रूमहे पुनः कुपितेन ततो राज्ञा सांयात्रिकपतौ धृते / सर्व स्ववृत्तमाचख्यौ राज्ञे मत्स्योदरो रहा ज्ञात्वा राज्ञापि पृष्टः सन् सार्थवाहोऽथ मर्मवित् / द्रव्याभिज्ञानसंबन्धे प्रत्यपद्यत नोत्तरम् // 55 // // 56 // // 57 // // 58 // // 59 // // 60 // // 61 // IIIIIIIIIIIIIIyle IIIIIIIIIIIISe // 63 // // 66 // // 67 // // 68 // // 69 //