________________ अयमेव सर्गः६ इति दूतयोः // 155 // llIIATERII NIFils IITO प्रतीतिः॥ बुभुजाते यथाशक्ति भक्त्या तत्परिवेषिणम् / न सेहे तद्रसज्ञा तु कर्नु तद्रसनिर्णयम् // 27 // ततः सरस्वतीपूजा नैवेद्यास्वादनादिना / नलोऽयमिति निःशङ्क प्रतीतिरभवत् तयोः // 28 // ऊचतुश्च यथा कुब्ज! त्वं महात्मा महीतले / नूनं स नलभूपालस्त्वयि जीवति जीवति // 29 // भोजनादमृतास्वादस्तीर्थयात्रा च दर्शनात् / अदारियं महादानात त्वया नौ प्रतिपादितम् // 30 // किं न प्रयोजनं सिद्धमानयोस्ता दर्शनात् / केवलं नलभूभनुर्वार्ता लब्धा नहि क्वचित् // 31 // तदस्तु स्वस्ति ते कुब्ज ! बजामो बत साम्प्रतम् / कुण्डिनस्य हि मुक्तस्य बहवो वासरा गताः // 32 // इतो गताभ्यामावाभ्यां विज्ञप्ता भीमनन्दिनी / अप्राप्तनलवृत्तान्ता न विद्मः किं करिष्यति // 33 // तयोस्तद् वचनं श्रुत्वा बभाषे कुब्जनैषधः। विप्रौ! यदि हि गन्तव्यं प्रेषयिष्याम्यहं ततः // 34 // दिष्ट्या युष्मत्प्रसङ्गेन जीवन्ती भीमजा श्रुता / दिष्ट्या तस्य च भूभर्तुर्भीमस्य कुशलं श्रुतम् // 35 // तत् तस्याः प्रणतिर्वाच्या दमयन्त्याश्च मामकी / सर्वस्वं च शरीरं च देव्या एवैतदिष्यताम् // 36 // तस्यां हि किल जीवन्त्यां क्वापि राजापि संभवेत् / इन्द्रसेनोऽथवा राज्यं निजं नेतुं भवेत् प्रभुः // 37 // ममापि भवति स्थान विदेशपतितस्य च / न विना निषधां क्वापि मुहूर्तमपि मे रतिः // 38 // तद् गच्छतं द्विजवरौ पुनरागमाय कल्याणमस्तु युवयोर्विषमेऽपि मार्गे। स्मर्त्तव्य एष निजदेशमपि प्रपन्नः स्वल्पोऽपि हि व्यतिकरः कथनं किमन्यत् // 39 // DIIIIIIIIIIIIIIIIIIIIIIII II A-III A // 155 //