________________ सप्तमे स्कन्चे सर्गः१ // 54 // एतत् किमप्यनवमं नवमङ्गलावं यद् निर्ममे कितवचक्रशिरोऽवतंसः। तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धो जगाम गुहमस्तकसङ्घय एषः इति श्रीमाणिक्यदेवसूरिकृते नलायने षष्ठे स्कन्धे सप्तमः सर्गः // 7 // समाप्तोऽयं षष्ठः स्कन्धः / प्राप्त्यर्थ भीम // 158 // सप्तमे स्कन्धे प्रथमः सर्गः / BIFilola IIIIIIII RISHII-IIFle III AIII NIA HIII IIIIIle भूपतिना आराधितः स्वयम्वरविधिः॥ ततः प्रहित्य तं दूतं वैदर्भी कूटगर्भितम् / आत्मानं मनसा मेने मनाग दुर्ललितामिव सोऽपि संप्राप्य साकेतं कितवः कृत्यविद्वरः / नत्वा धर्मासनासीनं ऋतुपर्ण व्यजिज्ञपत् स्वामिन् ! भीमनृपः पुत्र्या दमयन्त्याः स्वयम्बरे / आमन्त्रयति हृष्टस्त्वां शीघ्रमागम्यतामिति किन्तु गन्तुमितो राजन् ! अद्यैव प्रगुणो भव / प्रातरेव शचीपूजा यतस्तत्र भविष्यति प्रहितस्य ममाभूवन बहवो देव ! वासराः। वर्त्मनि ज्वरवैकल्याद् विलम्बोऽयमभूत् पुनः अद्यापि हि समागत्य राजकार्य मया कृतम् / कालक्षेपापराधं मे वैधुर्यात् क्षन्तुमर्हसि .मा स्म भूद् विस्मयोऽयं यद् भैमी भूयः पतिम्बरा / या परित्यज्य दिक्पालान् नलं वृतवती किल . // 7 // // 158 //