________________ चतुर्थे स्कन्धे पञ्चमः सर्गः। छिद्रं चतुर्थे स्कन्धे सर्गः 5 // 77 // लब्ध्वा कलेरङ्गप्रवेशः नलस्य द्यूतक्रीडा च // तेन तीव्रविपाकेन विषेणेव विसर्पता / नलस्य कलिताः शीघ्रं भिन्नाः सप्तापि धातवः सर्वभारक्षमं प्राप्य तमाधारं महीपतिम् / प्रससार कलिः स्वैरं सलिले तैलबिन्दुवत् // 2 // तमाविश्य विशेषेण संप्रहत्तुमनाः कलिः / दध्यौ दुरोदरं नाम्ना देवं द्यूताधिदैवतम् स्तेयानृतच्छलच्छद्मपैशुन्यादिपरिच्छदः / स तस्य पुरतः तस्थौ प्रणम्य रचिताञ्जलिः ततस्तं विनयप्रहं कलिः कलितविस्मयः / नलस्य दक्षिणं पाणिं भजस्वेति समादिशत् नतमौलिः कलेराज्ञां तथेति प्रतिगृह्य सः। नलपाणितलं भेजे कपोत इव पङ्कजम् तदादि सततं तस्य नृपस्यात्मवतोऽपि हि / विक्षिप्तदिनकृत्यायामक्षवत्यां मनोऽभवत् ततः समुदितद्यूतक्रीडार्कुण्डलपाणिना / तेन राज्ञा सुखं लेभे न मुहूर्तमपि क्वचित् // 8 // कदाचित् कूबरं नाम्ना भ्रातरं स निजानुजम् / स्नेहादपरमात्रेयं द्वन्द्वद्यूते न्यमन्त्रयत् // 9 // उभयोरभवद् द्यूतं सभायां रतिवर्द्धनम् / मिथः क्रमसमायातदोलारूढजयाजयम् // 10 // यो जयाभिमुखं द्यूतं जानाति स्म स्वहेतवे / स चकार प्रतिज्ञातात् पूर्वस्माद् द्विगुणं पणम् . // 11 // सुव्यक्तमनदनक्षाः करप्रेडोलनेस्तयोः / नत्यतः कलिधर्तस्य पादघर्घरका इव // 12 // IAI AISI II II II // 77 //