________________ षष्ठे स्कन्धे षष्ठः सर्गः। स्कन्ध सगे:६ व्याकुलो नलः॥ // 154|| बाजाII III IIFII ISHIE ततः प्रववृते तत्र तदपूर्व नलायनम् / मूर्छन्निव जनो जज्ञे यदाकर्ण्य विलोक्य च द्यूतहारितसर्वस्वं घोरधर्माकुले पथि / यतश्चरणचारेण वैदर्भी नलमन्वगात // 2 // अस्तोकशोकसंतप्तां तटाकतटसंस्थिताम् / यथा च ललितैर्वाक्यैस्तां समाश्वासयनलः प्रियामेकाकिनी सुप्तां निशि विश्वस्तशायिनीम् / स खड्गखण्डितक्षौमः परित्यज्य यथा ययौ // 4 // तत् तत् सर्व सुदेवोक्तं शृण्वन्तश्चित्रगोचरम् / हाहारावमुखाः सर्वे शोषं प्रापुः सभासदः भो भो भृपालशार्दूल! नल ! युक्तमिदं तव / मा मैवमिति तं धत्तुं ऋतुपर्णोऽपि तवरे प्रातर्नलमनालोक्य विलपन्ती विसंस्थुलाम् / तां वीक्ष्य पतितां भृमौ जनः सर्वोऽप्यभाषत // 7 // निहतः किं न दिक्पालैः किं न वज्रेण ताडितः / किं न कालाहिना दष्टः किं न दग्धो दवाग्निना // 8 // न किं कवलितः पृथ्व्या विपनः किं न वा स्वयम् / स्त्रीघातपातकं कृत्वा जिजीव स कथं नलः // 9 // युग्मम् // इति लोकापवादाग्निज्वालापटलपीडितः। कर्कोटकविषार्तोऽपि नलः कुब्जः सुखं ययौ // 10 // असावजगरेणात्र अस्यते नलवल्लभा / अहो कश्चिदपि त्राता वर्त्तते साहसी नरः // 11 // इति जल्पति शाण्डिल्ये भूत्वा पात्रावतारवत् / निजं.विस्मृतकुब्जत्वं जजल्प निषधांधिपः // 12 // HIAHINI HISHI HIातात // 154 //