________________ बाजाIIIIIVISI PISSIRISIIIFile यदि भवति सहसं शक्रवल्लोचनानां न च भवति निमेषस्यान्तरायः कदाचित् / निरवधि च नृणां चेद् जायते जीवितव्यं तदपि क इह भैमी प्रेक्ष्य पारं प्रयाति ? स्वामिन् ! काम नमोऽस्तु ते कुरु कृपां केयं पुरो दृश्यते ? सत्यं ब्रूहि किमत्र भीमतनया हा हा ! हतोऽस्मि ध्रुवम् / एतस्याः कुलशीलरूपविभवं तादृग् मयि प्रेम च प्रत्यक्षं परिभाव्य हन्त ! भविता का नाम या मे गतिः // 7 // इत्थं तस्मिन् मनसि वदति स्वैरसङ्कल्पितानि प्रत्यासन्नव्यवहितरुचौ भूरि भूपालचन्द्रे / दायातप्रियपरिचयप्रेरणायेव भैम्याः स्पन्दं प्रापञ्चकितशफरीचश्चलं वामचक्षुः // 8 // दृष्ट्वा तां च प्रकटममुना लोचनागोचरेण प्रत्यग्रोऽभूत् पुलकविभवः कोऽपि तस्याः सखीनाम् / आलीदानां मलयमरुता माधवीनां लतानां सर्वाङ्गीणः स्वयमिव भृशं पल्लवोल्लासभावः // 9 // अथ कथमपि सनिगृह्य कम्पं नृपतिलकः सहसा बभूव दृश्यः। क्षितिपतिदुहितुः सखीसमाजे नव इव कैरविणीवने शशाङ्क: // 10 // इति श्रीमाणिक्यदेवसूरिकृते नलायने द्वितीये दूत्यस्कन्धे नवमः सर्गः // 9 // MMSTIIIIIIIIIIIIIIle