________________ नाजा III-IIIII-III Ille "सं.१३७५ वर्षे माघ शुदि 5 शनौ श्रीओसवालज्ञा०श्रे०....भा. पालू श्रेयसे पु० सिंहेन श्रीपार्श्वनाथबिम्बं प्र० श्रीमाणिक्यसूरिभिः।" अनेन कविनाऽन्येऽपि बहवो ग्रन्था रचितास्तेष्वेको जामनगरनिवासिना श्राद्धरत्नेन हंसराजात्मजेन पण्डितवर्येण हीरालालेन स्वीयमुद्रणालये मुद्रापितस्तस्य नाम खलु यशोधरचरित्रम् / तदवलोकनेनैतद् निर्णीयते यद् अयं ग्रन्थकारः कलिकाल-सर्वज्ञ-विद्वच्छिरोड वतंस-आचार्यश्रीमद्हेमचन्द्राचार्यानन्तरमभवत् / यशोधरचरित्रस्याऽऽदौ मङ्गलार्थमेतच्छन्दः 'करामलकवद्विश्वं कलयन् केवलश्रिया / अचिन्त्यमाहास्यनिधिः सुविधिबोधयेऽस्तु वः॥' इदं नलायनं यशोधरचरित्रनिर्माणकालात् पश्चाद् निर्मितमिति तेनैव कविरत्नेन नलायनस्य प्रत्येकस्कन्धान्तर्वर्त्तिन्या प्रशस्तौ प्रतिपादितम् 'एतत् किमप्यनवमं नवमङ्गलाकं, श्रीमदयशोधरचरित्रकृता कृतं यत् / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धो जगाम रसवीचिमयस्तृतीयः // ' . नलायन-यशोधरचरित्रयोरेककर्तृत्वम् / अस्मिन् विषये प्रमाणरूपा इमे श्लोकाः सन्ति" अराजकमहो विश्वं ही भो निःशरणं जगत् / दुर्बलो बलिभिः कस्माद् हन्यते बालिशैः पशुः // " नलायने नवमे स्कन्धे द्वितीये सर्गे श्लोकः 8 / ___ यशोधरचरित्रे च द्वितीयसँगें श्लोकः 33 / IASHI III-IIIIIIIK