SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ @IIIIIIIlatII-IIIIIIIIC सदा कृत्याकृत्यस्मरणविमुखेभ्यः प्रभुतया नमः स्वच्छन्देभ्यो विधिविलसितेभ्यः किमपरम् ? // 26 // इत्थं किश्चित् प्रकृतिविषयं चिन्तयन्नात्मचित्ते शीघ्रं देव्या दिवसविगमे निर्मितं धर्मवत्या / / मेजे राजा रजनिसमये राज्यलक्ष्मीवियुक्तः सन्तप्तात्मा कुवलयदलस्रस्तरं सस्तगात्रः // 27 // तस्यावस्थामवनिशयने हस्तविन्यस्तमूनों दर्श दर्श चरणयुगलं खाङ्कभागे वहन्ती / तत्रारेभे सुपरिचरितुं राजपुत्री कराभ्यामार्द्राभ्यामविरलगलबाष्पपूरप्लवेन // 28 // हा ! धिक कष्टं वनचरचमूविग्रहाध्मातमन्योरक्षक्रीडाव्यसनजनिता काण्डसर्वस्वहानैः / देवस्याद्य क्षितिपतिगुरोर्वेश्म तद्गाङ्गनीरं ? भैमीमात्रो गृहपरिजनस्तल्प मुर्वीतलं च // 29 // धिक् सौभ्रानं धिगधिकजनं धिग् महामात्यवर्ग धिर धिग् लक्ष्मी धिगधिकबलं धिक् कुलं धिक् सहायान् / येनैकाकी विकलकरणः कानने भूमिशायी ? पुण्यश्लोकः कथयति दशामीदृशीं राजहंसः // 30 // यद् यत् पूर्व प्रियसहचरी केशिनी मामवोचत् तत् तत् सर्व फलमविकलं दुनिमित्तैः कृतं मे। ग्रस्तः सोऽयं कपटपटुभिः कोटिभिर्व्यन्तराणां मत्प्रज्ञायाः स्फुटमविषयं रक्षितुं प्राणनाथः // 31 // नूनं शून्यः क्वचिदपि विधौ मां विहाय प्रमत्तां स्वैरं राजा विरचयति यदा कस्तदानीं रुणद्धि / वारं वारं स्फुरति यदि वा दक्षिणं चक्षुरेतत् तद् मे सम्यग् दयितविरहः सर्वथा हा ! हताऽस्मि // 32 // इत्थं चिन्तापरवशतया साध्वसाद्वैतशून्यां राजन् ! राजनिति सरभसं भीमजां व्याहरन्तीम् / नाASIAFIIIIIIII
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy