________________
७४/६९७
षड्दर्शन समुच्चय भाग - २, श्लोक, ४८-४९, जैनदर्शन
का विकास होता है। इसलिए श्वासोश्वास चालू रहने का चैतन्य के साथ कोई अन्वय व्यतिरेक मिलते नहीं है। इसलिए चैतन्य शरीर का कार्य नहीं है। ___ अथ तेजसोऽभावान्न मृतावस्थायां चैतन्यमिति चेत् ? तर्हि तत्र तेजस्युपनीते सति कथं न चेतनोपलभ्यते ?। किंच मृतावस्थायां यदि वायुतेजसोरभावेन चैतन्याभावोऽभ्युपगम्यते, तर्हि मृतशरीरे कियढेलानन्तरं समुत्पन्नानां कृम्यादीनां कथं चैतन्यम् ? ततो यत्किंचिदेतत् । किंच न चैतन्यं भूतमात्रकारणम् । तथा सति चैतन्यस्य भूतमात्रजन्यस्वभावत्वात् तेषामपि तज्जननस्वभावत्वात् सर्वदा सर्वत्र घटादौ पुरुषादिष्विव व्यक्तचैतन्योत्पादो भवेत्, निमित्ताविशेषात् । एवं च घटादिपुरुषयोरविशेषः स्यात् । 'ननु कायाकारपरिणामप्राणापानपरिग्रहवद्भ्यो भूतेभ्यश्चैतन्यमुपलभ्यत' इति E-88वचनान्न पूर्वोक्तोऽतिप्रसङ्गदोषावकाश इति चेत् ? तन्न, त्चन्मते कायाकारपरिणामस्यैवानुपपद्यमानत्वात् । तथाहि-स कायाकारपरिणामः किं पृथिव्यादिभूत, मात्रनिबन्धनः १ ? उत वस्त्वन्तरनिमित्तः २ ? उताहेतुकः ३ ? इति त्रयी गतिः । तत्र न तावदाद्यः पक्षः कक्षीकरणीयः - पृथिव्यादिसत्तायाः सर्वत्र सद्भावात् सर्वत्रापि कायाकारपरिणामप्रसङ्गः । तथाविधसाम्यादिभावसहकारिकारणवैकल्यान्न सर्वत्र तत्प्रसङ्ग इति चेत् ? तन्न, यतः सोऽपि साम्यादिभावो न वस्त्वन्तरनिमित्तः, तत्त्वान्तरापत्तिप्रसङ्गात्, किंतु पृथिव्यादिसत्तामात्रनिमित्तः, अतस्तस्यापि सर्वत्राप्यविशेषेण भावप्रसङ्गात् कुतः सहकारिकारणवैकल्यमिति । अथ वस्त्वंतरनिमित्तः इति पक्षस्तदप्ययुक्तं, तथाभ्युपगमे जीवसिद्धिप्रसङ्गात् । अथाहेतुकः, तर्हि सदाभावादिप्रसङ्गः, “नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्” [प्र० वा० -३।३४] इति वचनात् । तन्न त्वन्मते कायाकारपरिणामः संगच्छते । तदभावे तु दूरोत्सारितमेव प्राणापानपरिग्रहवत्त्वममीषां भूतानामिति, चैतन्यं न भूतकार्यमित्यतो जीवगुण एव चेतनेत्यभ्युपगन्तव्यम् । व्याख्या का भावानुवाद :
"मृतअवस्था में शरीर में से तैजस (गरमी) निकल जाने के कारण चैतन्य का अभाव होता है।" ऐसा कहना उचित नहीं है। क्योंकि मृतशरीर को अग्नि से गरमी दी जाये तो शरीर में पर्याप्त उष्मा (गरमी) आ जाने के कारण आपके मतानुसार चैतन्य आ जाना चाहिए। तो चैतन्य आ जाने से शरीर आग में जल जाने के बदले सजीवन हो जाने की आपत्ति आयेगी।
वैसे ही यदि "मृतअवस्था में वायु-अग्नि का अभाव होने के कारण चैतन्य का अभाव है।" ऐसा आपके द्वारा स्वीकार किया जाये तो मृतशरीर में कुछ समय बाद उत्पन्न होते कृमियो में चैतन्य कहां
(E-88) - तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org