Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 722
________________ षड्दर्शन समुच्चय भाग - २, परिशिष्ट - ७, ( साक्षीपाठ) (G-12) “मतिश्रुतावधिमनः पर्ययकेवलानि ज्ञानम् ।" त० सू० ११९ । (G-13) "आद्ये परोक्षम् । " त० सू० १।११ । (G-14) “प्रत्यक्षमन्यत्" त० सू० १।१२ । (G-15) "अन्तर्व्याप्त्यैव साध्यस्य सिद्धौ बहिरुदाहृतिः । व्यर्था स्यात्तदसद्भावेऽप्येवं न्यायविदो विदुः ।" न्यायावता० श्लो० २० । ६९५ / १३१७ (G-16) "सदेव सर्वं को नेच्छेत् स्वरूपादिचतुष्टयात् । असदेव विपर्यासात् न चैव व्यवतिष्ठते ।" आप्तमी० श्लो० १५ । 44 (G-17) 'अत्र च स्निग्धरूक्षशीतोष्णाश्चत्वार एवाणुषु संभवन्ति, स्कन्धेष्वष्टावपि यथासंभवमभिधानीया: ।" तत्त्वार्थाधि० भा० टी० ५।२३ । (G-18) "अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशं प्रत्यक्षम् ।" न्यायाव० श्लो० ४। " प्रत्यक्षलक्षणं प्राहुः स्पष्टं साकारमञ्जसा ।" न्यायविनि० १ । ३ । प्रमाणप० पृ० ६७ । परीक्षामु० २।३ । पञ्चाध्यायी १।६१६ । न्यायाव० श्लो० ४। जैनतर्कवा० पृ० ९३ । प्रमाण० तत्त्वा० २।२ । प्रमाणमी० १।१।१३ । (G-19) “प्रत्यक्षं कल्पनापोढं नामजात्याद्यसंयुतम् ||३||" प्रमाणस० पृ० ८ । तत्र कल्पनापोढमभ्रान्तं प्रत्यक्षम् । न्यायवि० पृ० १६ | तत्त्वसं० का० १२१४ । “इन्द्रियार्थसंनिकर्षोत्पन्नमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ।" न्या० सू० १|१|४ | "अक्षस्य अक्षस्य प्रतिविषयं वृत्ति: प्रत्यक्षम्, वृत्तिस्तु सन्निकर्षो ज्ञानं वा ।" न्यायभा० पृ० १७ । न्या० वा० पृ० २८ । सम्यगपरोक्षानुभवसाधनं प्रत्यक्षम् । न्यायसार पृ० २ । आत्मेन्द्रियार्थसंनिकर्षाद् यन्निष्पद्यते तदन्यत् । | वैशे० द० ३।१।१८ । “अक्षमक्षं प्रतीत्य उत्पद्यते इति प्रत्यक्षम् ... सर्वेषु पदार्थेषु चतुष्टयसंनिकर्षाद् अवितथमव्यपदेश्यं यज्ज्ञानमुत्पद्यते तत्प्रत्यक्षं प्रमाणम् ।" प्रशस्तपा० पृ० १८६ । इन्द्रियजन्यं ज्ञानं प्रत्यक्षम्, अथवा ज्ञानाकरणकं ज्ञानं प्रत्यक्षम् । मुक्तावली श्लो० ५२ । न्यायबो० ४७ । “साक्षात्काररूपप्रमाकरणं प्रत्यक्षम् ।" न्यायसि० मं० पृ० २ । “प्रतिविषयाध्यवसायो दृष्टम् ।" सांख्यका० ५। “इन्द्रियप्रमाणालिकया चित्तस्य बाह्यवस्तूपरागात् तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् ।" योगद० व्यासभा० पृ० २७ । यत्संबद्धं सत् तदाकारोल्लेखिविज्ञानं तत् प्रत्यक्षम् । सांख्यद ११८९ । सत्संप्रयोगे पुरुषस्य इन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षनिमित्तं विद्यमानोपलम्भनत्वात् । मीमां० द० १।१।४ । साक्षात्प्रतीति: प्रत्यक्षम् । प्रकरणपं० पृ० ५१ । तत्र प्रत्यक्षप्रमाया:- करणं प्रत्यक्षप्रमाणम् । प्रत्यक्षत्वम् चात्र चैतन्यमेव ( पृ० १२) तथा च तत्तदिन्द्रिययोग्यवर्तमानविषयावच्छिन्नचैतन्याऽभिन्नत्वं तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम् । वेदान्तपरि० पृ० २६ | आत्मेन्द्रियमनोऽर्थात् संनिकर्षात् प्रवर्तते । व्यक्ता तदात्वे या बुद्धिः प्रत्यक्षं सा निरुच्यते । चरकसं० ११।२० । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756