Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
७१२/१३३४
षड्दर्शन समुच्चय भाग-२, परिशिष्ट-८, पारिभाषिकशब्दानुक्रमणी (सार्थ)
(५) तत्र पृथिव्यादिचतुःसङ्ख्यं द्रव्यं प्रत्येकं नित्यानित्यभेदाद्विप्रकाम् । तत्र परमाणुरुपं नित्यम् ।
तदारब्धं तु व्यणुकादिकार्यद्रव्यमनित्यम् । आकाशादिकं नित्यमेव, अनुत्पत्तिमत्त्वात्। (६) एषां च द्रव्यत्वाभिसंबन्धाद् द्रव्यरुपता । द्रव्यत्वाभिसंबन्धश्च द्रव्यत्वसामान्योपलक्षितः समवायः
। तत्समवेतं वा सामान्यम् ! (७) इदं नवविधमपि द्रव्यं सामान्यतो द्वेधा, अद्रव्यं द्रव्यं अनेकद्रव्यं च द्रव्यम्। गुणः पुनः पञ्चविंशतिधा
। तद्यथा : - (१) स्पर्शः, (२) रसः, (३) रुपं, (४) गन्धः, (५) शब्दः, (६) संख्या, (७) विभागः, (८) संयोगः, (९) परिमाणं, (१०) पृथक्त्वं, (११) परत्वं, (१२) अपरत्वं, (१३) बुद्धिः, (१४) सुखं, (१५) दुःखं, (१६) इच्छा, (१७) धर्मः, (१८) अधर्मः, (१९) प्रयत्नः, (२०)
संस्कारः, (२१) द्वेषः, (२२) स्नेहः, (२३) गुरुत्वं, (२४) द्रवत्वं, (२५) वेगश्च । (८) तत्र द्रव्यं नवधा भूजलतेजोनिलान्तरिक्षाणि कालदिगात्ममनांसि च । (९) स्पर्शस्त्वगिन्द्रियग्राह्यः पृथिव्युदकज्वलनपवनवृत्तिः १. रसो- रसनेन्द्रियग्राह्यः पृथिव्युदकवृत्तिः
२. चक्षुह्यं रुपं पृथिव्युदकज्वलनवृत्ति तच्च रुपं जलपरमाणुषु तेजःपरमाणुषु च नित्यं,
पार्थिवपरमाणुरुपस्य त्वग्निसंयोगो विनाशकः । (७) सर्वकार्येषु च कारणरुपपूर्वकरुपमुत्पद्यते, उत्पन्नेषु हि व्यणुकादिकार्येषु च पश्चात्तत्र रुपोत्पत्तिः,
निराश्रयस्य कार्यरुपस्यानुत्पादात् । (८) गन्धो घ्राणग्राह्यः पृथिवीवृत्तिः । (९) शब्दः श्रोत्रेन्द्रियग्राह्यो गगनवृत्तिः क्षणिकश्च । श्रोत्रेन्द्रियं चाकाशात्मकम् । (१०) सङ्ख्या तु एकादिव्यवहारहेतुरेकत्वादिलक्षणा । सा पुनरेकद्रव्या वानेकद्रव्या च । (११) अप्राप्तिपूर्विका प्राप्तिः संयोगः । प्राप्तिपूर्विका अप्राप्ति विभागः । (१२) परिमाणव्यवहारकारणं परिमाणम्। तच्चतुविध, महदणु दीर्धं इस्वं च तत्र महद्विविधं, नित्यमनित्यं
च । नित्यमाकाशकालदिगात्मसु परममहत्त्वम् । अनित्यं व्यणुकादिषु द्रव्येषु । अण्वपि
नित्यानित्यभेदाद् द्विविधम् । परमाणुमनःसु पारिमाण्डल्यलक्षणं नित्यम् । अनित्यं व्यणुक एव । (१३) संयुक्तमपि द्रव्यं यदवशादत्रेदं पृथगित्यपोद्धियते, तदपोद्धारव्यवहारकारणं पृथक्त्वम्। (१४) इदं परमिदमपरमिति यतोऽभिधानप्रत्ययौ भवतः, तद्यथाक्रमं परत्वमपरत्वं च । द्वितयमप्येतत्
दिकृतं कालकृतं च। (१५) बुद्धिर्ज्ञानं ज्ञानान्तरग्राह्यम् । सा द्विविधा, विद्याऽविद्या वा । तत्राविर्धा चतुर्विधा
संशयविपर्ययानध्यवसायस्वप्न लक्षणा । विद्यापि चतुर्विधा प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा । (१६) अतीतविषया स्मृतिः सा च गृहीतग्राहित्वान्न प्रमाणम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4ab014545232f1099d54859070a07ad35e8da8c2ede221a83161b01f5b63399d.jpg)
Page Navigation
1 ... 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756