Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
७१०/१३३२
षड्दर्शन समुच्चय भाग-२, परिशिष्ट-८, पारिभाषिकशब्दानुक्रमणी (सार्थ)
(६३) अनुभवस्मरणकारणकं सङ्कलनं प्रत्यभिज्ञानम् । (६४) उपलम्भानुपलम्भसम्भवं त्रिकालकलितसाध्यसाधन सम्बन्धाद्यालम्बनमिदमस्मिन् सत्येव
भवतीत्याद्याकारं संवेदनं तर्कः । (६५) अनुमानं द्विधा, स्वार्थं परार्थं च । (६६) हेतुग्रहणसम्बन्धस्मरणहेतुकं साध्यविज्ञानं स्वार्थम् । (६७) निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः । इष्टमबाधितमसिद्ध साध्यं, साध्यविशिष्टः प्रसिद्धो धर्मी
पक्षः। (६८) पक्ष हेतुवचनात्मकं परार्थमनुमानमुपचारात् । (६९) मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि । (७०) दृष्टान्तो द्विधा, अन्वयव्यतिरेकभेदात् । साधनसत्तायां यत्रावश्यं साधनसत्ता प्रदर्श्यते
सोऽन्वयदृष्टान्तः । साध्याभावेन साधनाभावो यत्र कथ्यते स व्यतिरेक दृष्टान्तः । (७१) हेतोरुपसंहारं उपनयः । प्रतिज्ञायास्तूपसंहारो निगमनम् । अत्रोदाहारणम् परिणामी शब्दः
कृतकत्वात्, यः कृतकः स परिणामी दृष्टो यथा घटः, कृतकश्चायम् तस्मात्परिणामी । (७२) आप्तवचनाज्जातमर्थज्ञानमागमः । अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स
आप्तः । (७३) प्रमाणस्य विषयस्तु अनन्तधर्मकं वस्तु स्वभावाः सहभाविनः क्रमभाविनश्च स्वपरपर्याया
यस्मिंस्तदनन्तधर्मम् । (७४) अनेकेऽन्ता अंशा धर्मा (स्वभावाः सहभाविनः क्रमभाविनश्च स्वपरपर्यायाः) वात्मा स्वरुपं यस्य
तदनेकान्तात्मकम् – अनन्तधर्मकम् । (७५) अपरोक्षतयार्थस्य ग्राहकं ज्ञानं प्रत्यक्षम् । ततोऽन्योऽपरोक्षः । (७६) उत्पत्तिविनाशस्थितियोग एव सतो वस्तुनो लक्षणम् । द्रव्यात्मना सर्वस्य वस्तुनः स्थितिरेव,
पर्यायात्मना तु सर्व वस्तूत्पद्ये विपद्यते वा, अस्खलितपर्यायानुभवसद्भावात् । (७७) उत्पादविनाशध्रौव्याणि स्याद्भिन्नानि भिन्नलक्षणत्वात् रुपादिवत् । असत आत्मलाभ उत्पादः सतः
सत्तावियोगो विनाशः द्रव्यरुपतयानुवर्तनं ध्रौव्यम् । (७८) उत्पादः केवलो नास्ति, स्थितिविगमरहितत्वात्, कूर्मरोमवत् । विनाशः केवलो नास्ति,
स्थित्युत्पत्तिरहितत्वात्, कूर्मरोमवत् । स्थितिरपि केवला नास्ति, विनाशोत्पादशून्यत्वात्
कूर्मरोमवत् । (७९) अनन्तधर्मात्मकं सर्वं वस्तु प्रमाणविषयः, अनन्तधर्मात्मकतायामेवोत्पादव्यय-ध्रौव्यात्मकताया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4b83b980374465e6f669cb179828234aa22a9ea3d3afcc39969e9e2167d55388.jpg)
Page Navigation
1 ... 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756