Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 738
________________ षड्दर्शन समुच्चय भाग - २, परिशिष्ट-८, पारिभाषिकशब्दानुक्रमणी (सार्थ) उपपत्ते:, अन्यथा तदनुपपत्तेरिति । (८०) अनन्तधर्मात्मकं वस्तु, उत्पादव्ययध्रौव्यात्मकत्वात्, तदुत्पादव्ययध्रौव्यात्मकमपि न भवति यथा वियदिन्दीवरमिति । (८३) विवादास्पदं (८१) धर्माश्चोत्पद्यन्ते व्ययन्ते च धर्मा च द्रव्यरूपतया सदा नित्यमवतिष्ठते । धर्माणां धर्मिणश्च कथञ्चिदनन्यत्वेन धर्मिणः सदा सत्त्वे कालत्रयवर्तिधर्माणामपि कथञ्चिच्छक्तिरूपतया सदा सत्त्वं, अन्यथा धर्माणामसत्त्वे कथञ्चित्तदभिन्नस्य धर्मिणोऽप्यसत्त्वप्रसङ्गात् । (८२) न च धर्मिणः सकाशादेकान्तेन भिन्ना एवाभिन्ना एव वा धर्माः, तथानुपलब्धेः, कथञ्चित्तदभिन्नानामेव तेषां प्रतीतेश्च । वस्त्वेकानेकनित्यानित्यसदसत्सामान्यविशेषाभिलाप्यनभिलाप्यादिधर्मात्मकं तथैवास्खलत्प्रत्ययेन प्रतीयमानत्वात् । यदनन्तधर्मात्मकं न भवति ७११/१३३३ (८४) परस्परविषयगमनं व्यतिकरः । (८५) सहानवस्थानं स्वरुपं परस्परपरिहारस्वरुप - वध्यघातकभावस्वरुपो विरोधः । वैशेषिकदर्शनम् श्लोक : ५९ से ६७ (१) देवताविषयकभेदो वैशेषिकाणां नैयायिकैः संमं नास्ति । (२) वैशैषिकमते तत्त्वषट्कम् ! तद्यथा १) द्रव्यं, (२) गुण:, (३) कर्म, (४सामान्य, (५) विशेष, (६) समवाय ! केचित्त्वभावं सप्तमं पदार्थमाहुः । (३) पदार्थषट्के द्रव्याणि गुणाश्च केचिन्नित्या एव केचित्त्वनित्याः, कर्मानित्यमेव, सामान्यविशेषसमवायास्तु नित्या एव । Jain Education International (४) भू: पृथ्वी, काठिन्यलक्षणा मृत्पाषाणवनस्पतिरुपा । जलमापः, तच्चसरित्समुद्रकरकादिकम् । तेजोग्नि:, तच्च चतुर्धा, तद्यथा - (१) भौमं, (२) दिव्यं (३) औदर्यं (४) आकरजञ्च । अनिलो - वायुः । एतानि चत्वार्यनेकविधानि । अन्तरिक्षमाकाशं, तच्चैकं नित्यममूर्तं विभु च द्रव्यम् । कालः परापरव्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रप्रत्ययलिङ्गो द्रव्यम् । स चेको नित्योऽमूर्तो विभुद्रव्यं च । दिगपि द्रव्यमेका नित्याऽमूर्ता विभुश्च । आत्मा जीवोऽनेको नित्यो मूर्तो विभुर्द्रव्यं च । मनश्चित्तं, तच्च नित्यं द्रव्यमणुमात्रमनेकमाशुसंचारि प्रतिशरीरमेकं च । युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् I तस्य च मनसो मृतशरीरपत्यासन्नमदृष्टवशादुपजातक्रियैरणुभिर्ह्यणुकादिक्रमेणारब्धमतिसूक्ष्ममनुपलब्धियोग्यं शरीरं संक्रम्यैव स्वर्गादौ तस्य स्वर्गाद्युपभोग्यशरीरेण संबन्धो भवति । तच्च मरणजन्मनोरान्तरालं गतं शरीरं मनस:स्वर्गनरकादिदेशं प्रतिवहनधर्मकत्वादातिवाहिकमित्युच्यते । मृतशरीरान्निर्गतस्य For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756