Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
षड्दर्शन समुच्चय भाग-२, परिशिष्ट-८, पारिभाषिकशब्दानुक्रमणी ( सार्थ)
७१३/१३३५
(१७) ऋषीणां व्यासादीनामतीतादिष्वतीन्द्रियेष्वर्थेषु धर्मादिषु यत्प्रातिभं तदार्षम् । (१८) आत्मन उपघातस्वभावं दुःखं तच्चामर्षदुःखानुभवविच्छायताहेतु : । (१९) स्वार्थं परार्थं चाप्राप्तप्रार्थनमिच्छा, तस्याश्च कामोऽभिलाषो रागः संकल्पः कारुण्यं वैराग्यं
वञ्चनेच्छां गूढभाव इत्यादयो भेदाः । (२०) कर्तुफलदाप्यात्मगुण आत्ममन:संयोगजः स्वकार्यविरोधी धर्मा धर्म रुपतया भेदवान् परोक्षोऽ
दृष्टाख्यो गुणः । (२१) प्रयत्न उत्साहः, स च सुप्तावस्थायां प्राणापानप्रेरकः प्रबोधकालेडन्तःकरणस्येन्द्रियान्तरप्राप्ति
हेतुहिताहितप्राप्तिपरिहारोद्यमः शरीरविधारकश्च । (२२) संस्कारो द्वेधा, भावना स्थितिस्थापकश्च, भावनाख्य आत्मगुणो ज्ञानजो ज्ञानहेतुश्च
दृष्टानुभूतश्रुतेष्वर्थेषु स्मृतिप्रत्यभिज्ञानकार्योन्नीयमानसद्भावः । स्थितिस्थापकस्तु मूर्तिमद्रव्यगुणः स च घनावयवसंनिवेशविशिष्टं स्वामाश्रयं कालान्तरस्थायिनमन्यथावस्थितमपि प्रयत्नः
पूर्ववद्यथावस्थितं स्थापयतीति स्थितिस्थापक उच्यते । (२३) प्रज्वनलानात्मको द्वेषः । स्नेहोऽपां विशेषगुणः संग्रहमृद्वादिहेतुः । (२४) गुरुत्वं जलभूम्यो :पतनकर्मकारणमप्रत्यक्षम् । (२५) द्रवत्वं स्यन्दनकर्मकारणं त्रिद्रव्यवृत्ति । तद्वधा, सहजं नैमित्तिकं च । (२६) वेगः पृथिव्यप्तेजोवायुमनःसु मूर्तिमद्रव्येषु प्रयत्नाभिघात-विशेषापेक्षात्कर्मणः समुत्पद्यते,
नियतदिक्क्रियाकार्यप्रबन्धहेतुः स्पर्शवद्र्व्यसंयोगविरोधी च । (२७) स्पर्शादीनां गुणानां सर्वेषां गुणत्वाभिसंबन्धो द्रव्याश्रितत्वं निष्क्रियत्वमगुणत्वं च ।
(२८) स्पर्शरसगन्धरुपपरत्वापरत्वगुरुत्वद्रवत्व स्नेहवेगा मूर्तगुणाः । (२९) बुद्धिसुखदुःखेच्छाधर्माधर्मप्रयत्नभावनाद्वेषशब्दा अमूर्तगुणाः ।। (३०) सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागा
उभयगुणाः । (३१) पञ्चविधं कर्म । तद्यथा- उत्क्षेपणम्-१, अवक्षेपणम्-२, आकुंचनं-३, प्रसारणम्-४, गमनं-च
५ (३२)परमपरं च सामान्यं द्विविधम् । (३३) सत्ताख्यं परं सामान्यम् । द्रव्यत्वादि अपरसामान्यम् । (३४) इदं सदिदं सदित्यनुगताकारज्ञानकारणं सत्तासामान्यम् । तच्च त्रिषु द्रव्यगुणकर्मसु पदार्थेषु
सदित्यनुवृत्तिप्रत्यस्यैव कारणत्वात्सामान्यमेव, न तु विशेषः । (३५) सत्तायोगात् सत्त्वं यदिष्यते तद्र्व्यगुणकर्मस्वेव । (३६) षड्विधा जातिबाधकाः । तद्यथा - (१) व्यक्तेरभेदः, (२) तुल्यत्वम्, (३) सङ्करः,
(४) अनवस्थितिः, (पू) रुपहानिः, (६) संबन्धाभावश्च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756