Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak

View full book text
Previous | Next

Page 742
________________ षड्दर्शन समुच्चय भाग-२, परिशिष्ट-८, पारिभाषिकशब्दानुक्रमणी (सार्थ) ७१५/१३३७ (२) तत्र पूर्वमीमांसावादिनः कुकर्मविवर्जिनो, यजनादिषट्कर्मकारिणो, ब्रह्मसूत्रिणो गृहस्थाश्रमसंस्थिताः शूद्रान्नादिवर्जका भवन्ति । ते च द्वेधा, भाट्टाः प्राभाकराश्च षट् पञ्च प्रमाणप्ररुपिणः । ये तूत्तरमीमांसावादिनः ते वेदान्तिनो ब्रह्माद्वैतमेव मन्यन्ते । आत्मन्येव लयं मुक्तिमाचक्षते न त्वपरां कामपि मुक्तिं मन्यन्ते। ___(३) ते च द्विजा एव भगवन्नामधेयाश्चतुर्धाभिधीयन्ते कूटीचरबहूदकहंसपरमहंसभेदात् । तत्र त्रिदण्डी सशिखो ब्रह्मसूत्री गृहत्यागी यजमानपरिग्रही सकृत्पुत्रगृहेऽश्नन् कुट्यां निवसन् कुटीचर उच्यते। कुटीचरतुल्यवेषो विप्रगेहनैराश्यभिक्षाशनो विष्णुजापपरो नदीनीरस्नायी बहूदकः कथ्यते । ब्रह्मसूत्रशिखाभ्यां रहितः कषायम्बर- दण्डधारी ग्रामे चैकरात्रं नगरे च त्रिरात्रं निवसन् विधूमेषु विगताग्निषु विप्रगेहेषु भिक्षां भुञ्जानस्तपःशोषितविग्रहो देशेषु भ्रमन् हंसः समुच्यते । हंस एवोत्पन्नज्ञानश्चातुर्वर्ण्यगेहभोजी स्वेच्छया दण्डधार ईशानी दिशं गन्छन् शक्तिहीनतायामशनग्राही वेदान्तैकध्यायी परमहंसः समाख्याते । एतेषु चतुर्पु परः परोऽघिकः । (४) जैमिनिदर्शने सर्वज्ञादिविशेषणविशिष्टो देवो नास्ति। अनुमान प्रयोगः- नास्ति सर्वज्ञः, प्रत्यक्षादि गोचरातिक्रान्तत्वात् शशश्रृङ्गवत् । (५) अतीन्द्रियार्थानां साक्षाद्रष्टुरभावतो नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः । अत एव पुरा कार्यो वेदपाठः प्रयत्नतः, ततो धर्मसाधनी धर्मस्य जिज्ञासा कर्तव्या। (६) निमित्तं द्विविधं जनकं ग्राहकं च । (७) नोदनालक्षणो धर्मो, नोदना तु क्रियां प्रति प्रवर्तकं वचः प्राहुः । यथा स्वर्गकामो यजेत् । (८) अनधिगतार्थाधिगन्तृ प्रमाणम् । अगृहीतार्थग्राहकं ज्ञानं प्रमाणम् । (९) प्रत्यक्षानुमानशाब्दोपमानार्थापत्त्यभावलक्षणानि षट् प्रमाणानि जैमिनिमुनेः संमतानि । तत्राद्यानि पञ्चैव प्रमाणानीति प्रभाकरोऽभावस्य प्रत्यक्षेणैव ग्राह्यतां मन्यमानोऽभिमन्यते। षडपि तानीति भट्टो भाषते । (१०) सत्संप्रयोगे सति पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् । (११) लिङ्गाल्लिङ्गिज्ञानमनुमानम् । ज्ञातसंबन्धस्यैकदेशदर्शनादसन्निकृष्टेऽर्थे बुद्धिरनुमानम् । (१२) शाश्वतवेदोत्थं शाब्दम् । वेदशब्दजनितं ज्ञानं शाब्दं प्रमाणम् । शब्दज्ञानादसन्निकृष्टेऽर्थे बुद्धिः शाब्दम् इति शाबर भाष्ये ।। (१३) मीमांसकमते नित्या आकाशवत्सर्वगताश्च वर्णाः । ते च ताल्वोष्ठादिभिरभिव्यज्यन्ते न पुनरुत्पाद्यन्ते । विशिष्टनुपूर्वीका वर्णाः । शब्दो नित्यः । शब्दार्थयोर्वाच्यवाचक संबन्ध । (१४) प्रसिद्धार्थस्य साधादप्रसिद्धस्य साधनं उपमानं कीर्तितम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756