Book Title: Shaddarshan Samucchaya Part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashak
View full book text
________________
७१४/१३३६
षड्दर्शन समुच्चय भाग-२, परिशिष्ट-८, पारिभाषिकशब्दानुक्रमणी (सार्थ)
(३७) नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । (३८) अयुतसिद्धानामाधाराधेयभूतभावनां यः संबन्ध इह प्रत्ययहेतुः सः समवाय : । (३९) अर्थोपलब्धिहेतुः प्रमाणम् । अव्यभिचारादिविशेषणविशिष्टार्थोपलब्धिजनिका सामग्री
तदेकदेशो वा बोधरुपोऽबोधरुपो वा ज्ञानप्रदीपादिः साधकतमत्वात्प्रमाणम् । (४०) वैशेषिकाणां प्रमाणं द्विविधम्, प्रत्यक्षं लैङ्गिकं च । तत्र प्रत्यक्षं द्वेधा, ऐन्द्रियं योगजं च । ऐन्द्रियं
घ्राणरसनचक्षुस्त्वक्त्रोत्रमनःसन्निकर्षजमस्मदादीनां प्रत्यक्षम् । तद्द्वेधा, निर्विकल्पकं
सविकल्पकं च । वस्तुस्वरुपालोचनमात्रं निर्विकल्पकम् । (४१) योगजं प्रत्यक्षं द्वेधा, युक्तानां प्रत्यक्षं वियुक्तानां च । तत्र युक्तानां समाधिमैकाग्यमाश्रितानां
योगजधर्मबलादन्तःकरणे शरीराबहिनिर्गत्यातीन्द्रियार्थैः समं संयुक्ते सति यदतीन्द्रियार्थदर्शन तद्युक्तानां प्रत्यक्षम् । ये चात्यन्तयोगाभ्यासोचितधर्मातिशयाद् समाधि प्राप्ता अप्यतीन्द्रियार्थं
पश्यन्ति, ते वियुक्ताः। (४२) लिङ्गदर्शनाद्यद्व्यभिचारित्वादिविशेषणं ज्ञानं तद्यतः परामर्शज्ञानोपलक्षितात्कारकसमूहाद्भवति
तल्लैङ्गिकम्-अनुमानम्। (४३) व्योमादिकं नित्यम् । प्रदीपादि कियत्कालावस्थायि । (४४) बुद्धिसुखादिकं च क्षणिकम् । (४५) चैतन्यादयो रुपादयश्च धर्माः आत्मादेर्घटादेश्च धर्मिणोऽत्यन्तं व्यतिरिक्ता अपि समवायसंबंधेन
संबद्धाः, स च समवायो नित्यः सर्वगत एकश्च । सर्वगत आत्मा । (४६) बुद्धिसुखदुःखेच्छाधर्माधर्म प्रयत्नभावनाख्यसंस्कारद्वेषाणां नवानामात्मविशेषगुणानामुच्छेदो
मोक्षः । (४७) परस्पर विभक्तौ सामान्यविशेषौ द्रव्यपर्यायौ च प्रमाणगोचरः । (४८) द्रव्यगुणादिषु षट्सु पदार्थेषु स्वरुपसत्त्वं वस्तुत्वनिबन्धनं विद्यते । (४९) द्रव्यगुणकर्मसु सत्तासम्बधो वतते सामान्यविशेषसमवायेषु च स नास्तीति । "मीमांसकदर्शनम् = जैमिनिदर्शनम्" श्लोक = ६८ से ७७
(१) जैमिनीया वेषेण साङ्ख्या इवैकदण्डास्त्रिदण्डा धातुरक्तवाससो मृगचर्मोपवेशनाः कमण्डलुधरा मुण्डशिरसः संन्यासिप्रभृतयो द्विजाः । ते द्विधा, एके याज्ञिकादयः पूर्वमीमांसावादिनः, अपरे तुत्तरमीमांसावादिनः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756